________________
कर्मकाण्डक्रमावली। डों हूँ आत्मतत्त्वेश्वराय शिवाय नमः, डॉ हूँ विद्यातत्त्वेश्वराय शिवाय नमः, डों हूँ शिवतत्वेश्वराय शिवाय नमः । अथ चतुर्थाञ्जलिमन्त्रः डों महेश्वराय मखं पूरय पूरय शूलपाणये नमः । प्रणम्य शिवमभ्यर्च्य पावकं च विधानवित् । विज्ञापयेच्छिवं भक्त्या वाञ्छितार्थफलप्रदम् ॥ ५२० ॥ भगवन्नतिरिक्तं वा हीनं वा यन्मया कृतम् । सर्व तदस्तु संपूर्ण पर्व दामनकं मम ॥५२१ ॥ एवं दामविधिं कृत्वा कुर्वीत गुरुपूजनम् । परितोषकरं पश्चाद्विजातीनपि तर्पयेत् ॥ ५२२ ॥ ब्रह्मचारी गृहस्थो वा यो दामं कुरुते विधिम् । पूजाजपादिकं तस्य सफलं चैत्रमासजम् ॥५२३ ॥ हिताय शैवसिद्धान्तनिष्ठानां सोमशंभुना ।
कर्मकाण्डक्रमावल्यां दमनारोपणं कृतम् ॥ ५२४ ॥ इति दमनपूजाविधिः ॥ अथ प्रायश्चित्तविधिः स्वकीयाचारलोपेन मानवो यात्यधोगतिम् । तस्योतितीर्षया किंचित्प्रायश्चित्तं वदेत्ततः ॥ ५२५ ॥ अत्यन्तसरुजे देहे राजचौरभयादिषु । गुरुदेवाग्निकार्येषु नित्यलोपो न दोषभाकू ।। ५२६ ॥ गृहस्थो ब्रह्मचारी च प्रायश्चित्ती द्विधा भवेत् । सकामाकामभेदेन तावपि द्विविधौ स्मृतौ ॥ ५२७ ॥