________________
।
सोमशम्भुरचिता। ईश्वरान्तं तमुच्चार्य पवित्रमधिरोपयेत् । ॥४६०॥ शिवान्ते शिवतत्त्वे च रुद्र कारणपालिते । शिवान्तं मन्त्रमुच्चार्य तस्मै देयं पवित्रकम् ॥४६१॥ सर्वकारणपाल्येषु सर्वतत्त्वेषु सुव्रत । मूलं मायान्तमुच्चार्य दद्याद्गङ्गावतारकम् ॥४६२॥ आत्मविद्याशिवैः प्रोक्तं मुमुक्षूणां पवित्रकम् । . विनिर्दिष्टं बुभुक्षणां शिवविद्यात्मभिः क्रमात ॥४६३।। स्वाहान्तं वा नमोन्तं वा मन्त्रमेतमुदीरयेत् । .
आचार्यः सर्वदेवानां विदधीत पवित्रकम् ॥४६४॥ डों हूं आत्मतत्त्वाधिपाय शिवाय स्वाहा , डों हूं विद्यातवाधिपाय शिवाय स्वाहा , डों हूं शिवतत्त्वाधिपाय शिवाय स्वाहा ।।
पवित्रकाणां त्रितयमिति दत्त्वा क्रमान्वितम् । डों हूं सर्वतत्त्वाधिपाय शिवाय स्वाहा ॥४६॥
इति मन्त्रं समुच्चार्य दत्त्वा गङ्गावतारकम् । पुष्पाञ्जलिपुटो भूत्वा भन्या विज्ञापयेद्विभुम् ॥४६६।। त्वं गतिः सर्वदेवानां संस्थितस्त्वं चराचरे । अन्तश्चारेण भूताणां द्रष्टा त्वं परमेश्वर ॥४६७।। कर्मणा मनसा वाचा त्वत्तो नान्या गतिर्मम । मन्त्रहीनं क्रियाहीनं द्रव्यहीनं च यद्गतम् ॥४६८॥ जपहोमार्चनैर्दीनं कृतं नित्यं मया तव ।