________________
"
%3D
कर्मकाण्डक्रमावली। अकृतं वाक्यहीनं च तत्पूरय महेश्वर । सुपूतस्त्वं महेशान पवित्रं पापनाशनम् ॥४६॥ त्वया पवित्रितं सर्व जगल्थावरजङ्गमम् । खण्डितं यन्मया देव व्रतं वैकल्ययोगतः ॥४७०॥ एकीभवतु तत्सर्व तवाज्ञासूत्रगुम्फितम् । जपं निवेद्य देवस्य भक्तया स्तोत्रं विधाय च ॥४७१।। प्रणम्याचलचित्तेन संतुष्टं भावयेच्छिवम् । चतुरस्त्रीनथ द्वौ वा मासं मासार्धमेव वा ॥४७२॥ सप्ताहं पञ्चरात्रं वा व्यहमेकाहमेव वा । गुरुणा वा यथोद्दिष्टं गृहीत्वा नियमं तथा ॥४७३॥ प्रणम्य क्षमयित्वेशं गत्वा कुण्डान्तिकं व्रती। पावकस्थे शिवेऽप्येवं पवित्राणां चतुष्टयम् ॥४७४॥ समारोप्य समभ्यर्च्य पुष्पधूपाक्षतादिभिः । अन्तर्बलिं पवित्रं च रुद्रादिभ्यो निवेदयेत् ॥४७॥ प्रविश्यान्तः शिवं स्तुत्वा सप्रणामं क्षमापयेत् । प्रायश्चित्ते कृते होमं कृत्वा हुत्वा च पावकम् ॥४७६॥ शनैः पूर्णाहुतिं दत्त्वा वह्निस्थं विसृजेच्छिवम् । होमं व्याहृतिभिः कृत्वा रुन्ध्यानिष्ठरयानलम् ॥४७७।। अग्न्यादिभ्यस्ततो दद्यादाहुतीनां चतुष्टयम् । दिक्पतिभ्यस्ततो दत्त्वा सपवित्रं बहिर्बलिम् ॥४७॥ सिद्धान्ते पुस्तके दद्यात्सुप्रमाणं पवित्रकम् । रों हां भूः स्वाहा , डों हां भुवः स्वाहा, डों हां स्वः।।