________________
४६
सोमशम्भुरचिता। स्वाहा. डों अग्नये स्विष्टकृते स्वाहा ।
इति दद्याद्विधानेन आहुतीनां चतुष्टयम् । अग्निकुण्डार्चितं देवं मण्डलाभ्यर्चिते शिवे ॥४४०॥ नाडीसन्धानरूपेण विधिना योजयेत्ततः । पूते वंशादिजे पात्रे विन्यस्यास्त्रं सकङ्कटम् ॥४४१।। हृदयं च ततस्तत्र पवित्राण्यपि रोपयेत् । कलाभिर्वा षडङ्गेन मन्त्रैर्वा ब्रह्मवाचकैः ॥४४२॥ अथवा मूलमन्त्रेण पवित्राण्यभिमन्त्रयेत् । हृदयं कवचं सास्त्रं तेषामुपरि दापयेत् ॥४४३।। इत्येवं संपुटीकृत्य पिदध्यादन्यवस्तुना । संवेष्टय वर्मणा सूत्रः पूजयित्वाङ्गशम्बरैः ॥४४४॥ रक्षार्थ जगदीशाय भक्तिनम्रः समर्पयेत् । पूजितैः पुष्पधूपाद्यैर्दवा सिद्धान्तपुस्तके ॥४४॥ गुरोः पादान्तिकं गत्वा भवत्या दद्यात्पवित्रकम् । निर्गत्य बहिराचम्य गोमये मण्डलत्रये ॥४४६॥ पञ्चगव्यं चहें दन्तधावनं च क्रमाद्भजेत् ।। आचान्तो मन्त्रसन्नद्धः कृतसंगीतजागरः ॥४४७॥ स्वपेदनुसरनीशं बुभुक्षुदर्भसंस्तरे। अनेनव प्रकारेण मुमुक्षुरपि संविशेत् ॥४४॥
केवलं भस्मशय्यायां सोपवासः समाहितः । इति पवित्रकाधिवासविधिः ॥
अथ प्रातः समुत्थाय कृतस्नानः समाहितः ॥४४६।।