SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ४८ कर्मकाण्डक्रमावली | चतुर्वर्गफलोपायमामन्त्रणपवित्रकम् । विधायाञ्जलिमध्यस्थमामन्त्रणपदं पठेत् समस्त विधिकच्छिद्रपूरणेश मखं प्रति । प्रभो आमन्त्रयामि त्वां त्वदिच्छावाप्तिकारकः ||४३२|| तत्सिद्धिमनुजानीहि यजतश्चिदचित्पते । सर्वथा सर्वदा शम्भो नमस्तेऽस्तु प्रसीद मे || ४३३॥ अथवा ॥४३१॥ ॥४३४॥ ॥४३५ ॥ श्रामन्त्रितोऽसि देवेश सह देव्या गणेश्वरैः । मन्त्रैश्च लोकपालैश्च सहितः परिवारकैः निवेदयाम्यहं तुभ्यं प्रभाते तु पवित्रकम् । नियमं च करिष्यामि परमेश तवाज्ञया इत्येवं देवमामन्त्र्य रेचकेनामृतीकृतम् । शिवान्ते मूलमुच्चार्य तच्छिवाय निवेदयेत् ॥४३६ ॥ जपं स्तोत्रं प्रणामं च कृत्वा शम्भुं क्षमापयेत् । हुत्वा मनोस्तृतीयांशं तं ददीत शिवाग्नये ॥४३७॥ डों पूर्वदिग्वासिभ्यो दिगीशभूतमातृगण रुद्रक्षेत्रपालादिभ्यः स्वाहा । इति दिङ्नामभेदेन सर्वदिक्षु बहिर्वल । दद्यादन्ये तु वायव्यां क्षेत्रपालबलि जगुः ॥४३८॥ समाचम्य' विधिच्छिद्रपूरकं होममाचरेत् । ततो व्याहृतिहोमं च कृत्वा रुन्धीत पावकम् ॥४३६ ॥ डों अग्नये स्वाहा, डों सोमाय स्वाहा, उों अग्नीषोमाभ्यां 1: 'आचम्य विधिव' ख. पाठः ॥
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy