________________
मोमशम्भुरचिता। आसनं पादुके पात्रं योगपट्टातपत्रकम् । ऐशान्यामीशमन्त्रेण दद्यादीशानतुष्टये ॥४२०॥ पूर्वस्यां चरुकं साधं सान्नं गन्धादिकं नरे। यदसंपन्नमेतेषां मनसा तत्प्रकल्पयेत् ॥४२१।। पवित्राणि समादाय प्रोक्षयेदस्त्रवारिणा । संहितामन्त्रपूतानि नीत्वा पावकसंनिधिम् ॥४२२॥ कृष्णाजिनादिनाच्छाद्य स्मरन्संवत्सरात्मकम् । साक्षिणं सर्वकृत्यानां गोतारं शिवमव्ययम् ॥४२३॥ स्वेति-हेति-प्रयोगेण मन्त्रसंहितया पुनः । शोधयित्वा पवित्राणि वाराणामेकविंशतिम् ॥४२४॥ यागधामवृषस्थानप्रासादालयसंश्रयान् । कारकौघं च सूत्रेण वर्मणा परिवेष्टयेत् ॥४२॥ पूजितायाथ सूर्याय दत्त्वा गन्धपवित्रकम् । प्रणिपत्य समाचम्य कृतन्यासः कृतार्धकः ॥४२६॥ गणादिद्वारपालेभ्यो दत्त्वा गन्धपवित्रकम् । प्रविश्य वास्तुनाथाय ब्रह्मणेऽपि ददीत तत् ॥४२७।। सास्त्रेभ्यो लोकपालेभ्यः पवित्राणि स्वनामभिः । शिवकुम्भाय वार्धान्य दद्याल्लम्बोदराय च ॥४२८॥ विघ्ननायकमभ्यर्च्य गुरुपादाम्बुजे ततः।। स्वात्मानं च पवित्रेण गन्धपूर्वेण भूषयेत् ॥४२६।। अथ सौषधीलिप्तं मानोन्मानविवर्जितम् । धूपितं पुष्पधूपाढ्यमेकग्रन्थ्यल्पतन्तुकम् ॥४३०॥