________________
कर्मकाण्डक्रमावली।
गणेशं वायुदिग्भागे पूजयित्वा चतुर्भुजम् । पमिनीपत्रसंकाशं सायुधं विघ्नवारणम् ॥४०॥ पञ्चामृतादिभिर्देवं स्थापयित्वा विधानतः। यजेत्पञ्चोपचारेण पूर्वोक्तविधिना ततः ॥४१०॥ कृत्वा कुण्डादिसंस्कारानभ्यर्च्य शिवपावकम् । विधिवञ्चरुकं दत्त्वा संपाताहुतिशोधितम् ॥४११॥ देवाग्न्यात्मविभेदेन दानं विभजेत् त्रिधा । । दत्त्वा भागौ शिवाग्निभ्यां संरक्षेद्भागमात्मनि ॥४१२॥ देयं सत्क्षीरवृक्षोत्थं द्वादशाङ्गुलमायतम् । नरेण वर्मणा वापि पूर्वतो दन्तधावनम् ॥४१३॥ दक्षिण भस्म दातव्यं रूपिणा शिखयाथवा । मृत्तिका पश्चिमे देया सद्योजातेन वा हृदा ॥४१४॥ उत्तरे देवदेवस्य दद्यादामलकीफलम् । जलं वा वामदेवेन शिरसा वापि पावनम् ॥४१॥ ऐशान्यामीशमन्त्रेण मूलमन्त्रेण वा जलम् । सुगन्धि पञ्चगव्यं च पलाशपुटसंस्थितम् ॥४१६॥ ऐशान्यां कुसुमं दद्यादाग्नेय्यां दिशि रोचनाम् । अगुरुं नैऋताशायां वायव्यां तु चतुःसमम् ॥४१७॥ होमद्रव्याणि सर्वाणि अजातेन कुशैः सह । दण्डाक्षसूत्रकोपीनभिक्षापात्राणि रूपिणा ॥४१८॥ अञ्जनं कुङ्कम तैलं शलाकां कुशशोधिनीम् । ताम्बूलं दर्पणं दद्यादुत्तरे रोचनामपि ॥४१६।।