________________
सोमशम्भुरचिता।
४५ अत्यर्थं भावयेदेवं ज्ञानखड्गकरो गुरुः ॥३८॥ निर्ऋतेर्दिशमासाद्य प्रक्षिपेदुदगाननः।। अर्धाम्बु' पञ्चगव्यं च समन्तान्मखमण्डपे ॥३६॥ चतुष्पथान्तसंस्कारे वीक्षणायैः सुसंस्कृतम् । विक्षिप्य विकिरांस्तत्र कुशकूयॊपसंहरेत् ॥४०॥ तानीशदिशि वार्धान्या आसनायोपकल्पयेत् । नितेर्वास्तुगीर्वाणान् द्वारे लक्ष्मी प्रपूजयेत् ॥४०१॥ पश्चिमाभिमुखं कुम्भं सर्वधान्योपरिस्थितम् । प्रणवेन वृषारूढं सिंहस्थां वर्धनी ततः ॥४०२॥ कुम्भे साङ्गं शिवं देवं वर्धन्यामस्त्रमर्चयेत् । दिक्षु शक्रादिदिकपालान्विष्णुब्रह्मावसानकान् ॥४०३॥ वार्धानी सम्यगादाय घटपृष्ठानुगामिनीम् । शिवाज्ञां श्रावयेन्मन्त्री पूर्वादीशान्तगोचरम् ॥४०४॥ अविच्छिन्न पयोधारां मूलमन्त्रमुदीरयन् । समन्ताभ्रामयेदेनां रक्षार्थ शस्त्ररूपिणीम् ॥४०॥ पूर्व कलशमारोप्य शस्त्रालं तस्य वामतः । समग्रासनके कुम्भे यजेद्देवं स्थिरासने ॥४०६॥ वाधान्यां प्रणवस्थायामायुधं तदनु द्वयोः । भगलिङ्गसमायोगं विदध्याल्लिङ्गमुद्रया ॥४०७॥ कुम्भे निवेश्य बोधासिं मूलमन्त्रजपं तथा ।
तदशांशेन वर्धन्यां रक्षां विज्ञापयेदपि ॥४०८॥ 1 'अाम्ब' ख.। 2 'वाधन्यां' 3 नं. क. ख. पाठः ।
111111111111