________________
सोमशम्भुरचिता। तथैव पिण्डिकास्पर्शि चतुर्थं सार्वदैवतम् ॥३८॥ गङ्गावतारकं कार्य पवित्रमतिसुन्दरम् । धौतं मूत्रमजातेन ग्रथितं गुह्यकेन तु
॥३८॥ शोधितं बहुरूपेण वक्त्रमन्त्रेण रञ्जयेत् । रक्तचन्दनकाश्मीरकस्तूरीचन्द्ररोचनाः ||३८२॥ हरिद्रा गैरिकं चैषां रञ्जदेकतमेन तत् । ग्रन्थयो दश कर्तव्या अथवा तत्त्वसंख्यया । ॥३८३॥ अन्तरं वा यथाशोभमेकद्विचतुरङ्गुलम् । प्रकृतिः पौरुषी वीरा चतुर्थी त्वपराजिता ॥३८४॥ 'पञ्चमी तु जया षष्ठी ह्यजिता सप्तमी क्रिया । शिवा मनोन्मनी चेव दशमी सर्वतोमुखा ॥३८॥ अधिका वा यथाशोभं कर्तव्या ग्रन्थयः समाः।। रत्नजे स्थएिडले वाणे चले लौहे स्वयम्भुवि ॥३८६॥ यथोदितं पवित्राणामेकं कार्य यथारुचि । चण्डेशरविवह्नीनां शिववत्सूत्रसंपदि ॥३८७॥ अन्यथैकैकमेतेषां विदधीत पवित्रकम् । निजमूतौँ गणाधीशे गुरुपादे च पुस्तके ॥३८॥ स्यादेकैकं तथा द्वारदिक्पालकलशादिषु । एकादिनवहस्तान्तं लिङ्गानां स्यात्पवित्रकम् ॥३८६।। अष्टाविंशतितो वृद्धया दशभिर्दशभिः क्रमात् । द्वयङ्गुला द्वय१लास्तत्र क्रमादेकाङ्गुलोत्तराः ॥३१॥ ग्रन्थयो मानमप्येषां लिङ्गविस्तारसंमितम |