________________
कर्मकाण्डक्रमावली। तस्मान्नैमित्तिकं नाम पचित्रकमिदं स्मृतम्' । नित्यं तु नित्यपूजायां पत्रपुष्पकुशादिभिः ॥३७०॥ पवित्रमन्यकालेऽपि प्रत्यहं परिकल्पयेत् । वह्निब्रह्माम्बिकेभास्यनागस्कन्दार्कशूलिनाम् ॥३७१।। दुर्गायमेन्द्रगोविन्दमरशंभुसुधाभुजाम् । अन्येषां सर्वदेवानां विधातव्यं पवित्रकम् ॥३७२॥ प्रतिपत्तः समारभ्य यावत्पञ्चदशी क्रमात् । मौवणं राजतं तानं कृतादिषु यथाक्रमम ॥३७३॥ कलौ कर्पासजं वापि यथाशक्ति पवित्रकम् । कर्तितं द्विजकन्याभित्रिगुणं त्रिगुणीकृतम् ॥३७४॥ धौतं शुष्कं शुभं सूत्रमन्यदप्युपयुज्यते । पट्टवल्कलपद्मोत्थं क्षौमं दर्भशणोद्भवम् ॥३७॥ मुञ्जादिसंभवं सूत्रं पवित्राय प्रशस्यते । प्रणवश्चन्द्रमा वह्निब्रह्मा नागो गुहो रविः ॥३७६॥ सादाख्यः सर्वदेवाश्च क्रमेण नवतन्तुषु । अष्टोत्तरशतेनैक सूत्राणां स्यात्पवित्रकम् . ॥३७७।। इत्थं त्रीणि तदर्धेन विंशत्या वा ससप्तया । एकाशीत्याथवा सूत्रस्त्रिंशता वाष्टयुक्तया ॥३७८॥ पञ्चाशता वा कर्तव्यं तुल्यग्रन्थ्यन्तरालकम् । द्वादशाङ्गुलमानानि ब्यासादष्टाङ्गुलानि च ॥३७६॥
लिङ्गविस्तारमानानि चतुरङ्गुलकानि वा । 1'स्फटम' ख. पाठः।
-
-