________________
३६
सोमशम्भुरचिता। अन्नादिभूमिपर्यन्तं सा भिक्षा स्यादयाचिता ॥३३६।। पतितान्नापितात्कारोरभिशस्तात् तथान्त्यजात् । धर्मोन्निनीषया भिक्षां भिक्षुरभ्यादधीत न ॥३४०॥ यथा मध्वादधानोऽपि भृङ्गः पुष्पं न बाधते । तद्वन्माधुकरी भिक्षामादधीत गृहाधिपात् ॥३४१॥ एताः सोमवदादेया भुक्तिमुक्तिफलार्थिभिः । आमां माधुकरी श्रेष्ठा सदैकान्नं च वर्जयेत् ॥३४२॥ माधूकरी चरेझिक्षामपि म्लेच्छकुलाद्बुधः । एकान्नं तु न भुञ्जीत बृहस्पतिसमो यदि ॥३४३॥ एताभ्यस्त्वपरां भिक्षां प्रार्थनादुपरोधतः । माध्यां भिक्षुनिरोधाख्यामधमां परिवर्जयेत् ॥३४४॥ भिक्षार्थ ताम्रजं लौहं ब्रह्मवृक्षादिपत्रजम् । बुभुक्षोर्विहितं पात्रं मुमुक्षोस्तुम्बिकादिजम् ॥३४॥ पवित्रं शिक्यकालम्बि बहुरूपाभिमन्त्रितम् । तनुत्रजप्तकाषायशुचिवस्त्रावगुण्ठितम् ॥३४६।। विशुद्धभस्मना स्नातं कौपीनं सोत्तरीयकम् । परिवर्त्य समाचम्य मौनी ध्यात्वा शिवं गुरुम् ॥३४॥ तयोराज्ञां समादाय दण्डं चास्त्राभिमन्त्रितम् । आतपत्रकरो यायाद्भिक्षार्थं शुद्धवेश्मसु ॥३४८॥ ततो घ्राणमलष्ठीवस्पर्शमुन्मार्गसर्पणम् । कुत्सनं च न कुर्वीत त्यजेदश्वादिसंकुलम् ॥३४६।।