________________
३८
कर्मकाण्डक्रमावली |
डों अमृतापिधानमसि इति प्रक्षालितेन हस्तेन श्राचमे चुलकाम्बुना ग्रासैः परिमितैर्भागं भागं तोयेन पूरयेत् ।
इति
॥३३१॥
1
प्राणसंचारणायांशमुदरस्य न पूरयेत् मधुस्निग्धं च कवकं पलाण्डुं लशुनामिषम् । गृञ्जनं हस्तदत्तं च लवणं च विवर्जयेत् ॥३३२ ॥ दधीत प्रभुञ्जानो लवणं न नवा घृतम् | मूर्धापिधानमौत्कण्ठयं कुत्सनं जृम्भणं त्यजेत् ॥ ३३३॥ नोनाम्योर्ध्व पिवेद्वारि न प्रक्षालितपाणिना । न विस्तारितवक्त्रेण नचाधो नान्यचेतसा ||३३४|| मक्षिकानखकेशादिजुष्टं त्यक्त्वाल्प भोजनम् | शेषं क्षालितहस्तेन भुञ्जीत स्पृष्टभस्मना ।।३३.५।। अद्भिर्यथावदाचम्याङ्गुष्टं पादस्य दक्षिणम् ।
॥३३०॥
सिश्चेद्दक्षिणमुष्टिस्थादङ्गुष्ठाग्राच्च्युताम्भसा आत्मा वै दक्षिणे पादे परात्परतरो विभुः । तमद्भिरभिषिञ्चामि योऽङ्गुष्ठाग्रे व्यवस्थितः पूर्ववत्सकलीकृत्य भुक्तदोषनिवृत्तये । मुद्रामानाभिनासान्तं बभीयात्परिघाह्वयाम्
इति सान्तानिकभोजनविधिः ॥
अनीयायाचमानाय श्रद्धया यत्प्रदीयते ।
॥३३६॥
॥३३७ ।
||३३८||