________________
कर्मकाण्डक्रमावली। नमः, डों हां अग्नये स्विष्टकृते नमः। __वह्नयादिपूर्वपर्यन्तं पूजयित्वानले क्रमात् ॥३१८॥ ___ स्वाहान्तमाहुतीर्दत्त्वा क्षमयित्वा विसर्जयेत् ।। डों धर्माय नमः इति चुल्ल्या दक्षिणबाहौ , डों अधर्माय नमो वामबाहौ , डों सरसरपरिवर्तनाय नमः इति काञ्चन्यादिसन्धानभाण्डेषु , डों जलाश्रयाय वरुणाय नमः इति चलभाण्डेषु, डों महाविघ्नराजाय नमः इति गृहप्रधानद्वारे , डों नन्दिने नमः , डों सुभगे नमः, डों सुमङ्गले नमः। डों भद्रकरि नमः आग्नेयादिकोणेषु , ठों वास्त्वधिपतये ब्रह्मणे नमो ब्रह्मस्थाने , डों हिरण्यकश्यै नमः, इति पेषण्यां, डों रौद्रे कोटिगिरिक नम इति उलूखले, डों बलभद्रप्रियाय प्रहरणाय नमः इति मुसले, मृत्यवे देवमोदिताय नमः इति संमार्जन्याम् , कामाय कुसुमायुधाय नमः इति शयनीयशिरसि , स्कन्दाय 'गृहाधिपतये नमः इति मध्यस्तम्भस्य अधस्तात् ।
इति वास्तुबलिं सर्वं निवर्त्य विधिपूर्वकम् ॥३१॥ धौतपादः समाचान्तः स्थानमास्थाय पावनम् । शिवभकैः सदाचारैः शुद्धशैवतपोधनैः ॥३२०॥ परस्परमसंकीर्णैरुपविष्टैरनाकुलैः। सवणैरेकया पतचा भुञ्जीतान्तर्मना मुनिः ॥३२१॥
सौवर्णे राजते ताने लोहपात्रे सुसंस्कृते । १'ब्रह्मा' क, पाठः।