________________
सोमशम्भुरचिता। एतं जपन्नरो मन्त्रं त्रिसन्ध्यं नियतः शुचिः ॥३०॥
विमुक्तः सर्वपापेभ्यः शिवलोकं स गच्छति । इति कपिलार्चनम् ॥
अथ विद्यां समभ्यर्च्य पुष्पधूपस्रगादिभिः ॥३१०॥ सम्यक संपूजयेद्भतया गुरोश्चरणपङ्कजे । मध्याह्नसमयं यावत्कृत्वा स्वाध्यायमीप्सितम् ॥३११॥ अर्चयेत्परमेशानं कृत्वा मानादि पूर्ववत् । पूर्वाचितेऽथवा देवे प्रदद्यादष्टपुष्पिकाम् ॥३१२॥ पीठमूर्तिशिवाङ्गानां पूजा स्यादष्टपुष्पिका। विधि माध्याह्निकं कृत्वा रम्ये भोजनमन्दिरे ॥३१३॥ विविक्ते गोमयालिप्ते विशुद्ध पाकमानयेत् । ततो मृत्युञ्जयेनैव वौषडन्तेन धा ॥३१४॥ जप्तैः सदर्भशङ्खस्थैः सिञ्चत् तं वारिबिन्दुभिः । . सर्वपाकाग्रमुद्धृत्यं शिवायाधं निवेदयेत् ॥३१५॥ अन्याधु चुल्लिकाहोमे विधानायोपकल्पयेत् । विशोध्य विधिना चुल्ली. तद्वहिं पूरकाहृतम् ॥३१६॥ कृत्वा नाभ्यग्निना चैक्यं ततो रेचकवायुना । वह्निबीजं समादाय हृदि स्थानगतिक्रमात् ॥३१७॥
शिवाग्निस्त्वमिति ध्यात्वा चुल्लिकारनौ निवेशयेत् । . डों हां अग्नये नमः , डों हां सोमाय नमः, ... हां सूर्याय नमः, डों हां बृहस्पतये नमः, डों हां. प्रजापतये नमः , डों हां सर्वेभ्यो देवेभ्यो नमः, डों हां विश्वग्यो