________________
कर्मकाण्डक्रमावली । ___ महरेन्मूर्तिमन्त्रेण शनैः संहारमुद्रया । ओं चण्डेशमूर्तये नमः।
पूरकान्वितमूलेन मन्त्रेणात्मनि योजयेत् ॥३०॥ निर्माल्यापनये स्थान लिम्पद गोमयवारिणा । प्रोक्ष्यास्त्रवारिणा स्थानं विसृज्या कंरादिकम् ॥३०१॥ प्रक्षाल्य सम्यगाचम्य न्यासं कुर्याद्यथोदितम ।
अथ कपिलार्चनम् । डों कपिले सुभद्रे नमः , डों कपिले सुरभये नमः , डों कपिले सुमनसे नमः ,
अमृतमथनोद्भता सुरभे लोकधारिणि ॥३०२॥ इमं ग्रासं गृहाण त्वमेवं मे व्रतमुत्तमम । गवां ग्रासो यथा देयः सौरभेयाय वै तथा ॥३०३ तुल्यमेतत्फलं दृष्टं किंतु मन्त्रः पृथक पृथक् । सर्वलोकधरा ह्येते जीवितानप्रदायिनः ॥३०४॥ ग्रासं गृहणन्तु वृषभा एतन्मे व्रतमुत्तमम् । नित्यं परगवे दद्याद गृहीत्वा व्रतमुत्तमम् ॥३०॥ रक्षन्ति च भयाद्घोरात्स्पर्शेन पापनाशनाः । सौरभेयि जगत्मातर्देवानाममृतप्रदे . ॥३०६॥ गृहाण वरदे ग्रासमीप्सितार्थं च देहि मे।। वन्दितासि वसिष्ठेन विश्वामित्रेण जलना ॥३०७॥ कपिले हर मे पापं यन्मया दुष्कृतं कृतम् ।। गावो ममाग्रतो नित्यं गावः पृष्ठत एव मे ॥३०८॥ गावो मे हृदये. वापि गवां मध्ये वसाम्यहम् ।