________________
सोमशम्भुरचिता। अर्चयेदिशि भर्गस्य यथाचण्डं तदुच्यते। डों डों डों चण्डासनाय स्वाहा, डॉ0 चण्डमूर्तये नमः, डों ध्वनिचण्डेश्वराय हूं फट् स्वाहा ; इत्यनेन आवाह्य, डों चण्डहृदयाय फट नमः , डों चण्डशिरसे हूं फट् नमः, • चण्डकवचाय हूं फट नमः, ॐ चण्डास्त्राय हूं फट नमः इति हस्तेऽस्त्रमिति सकलीकृत्य ध्यायेत् ।
रुद्राग्निप्रभवं चण्डं कजलाभं भयानकम् ॥२६२।। शूलटङ्कधरं रौद्रं चतुर्वक्त्रं चतुर्भुजम् । मुखोद्गीर्णमहाज्वालं रक्तं द्वादशलोचनम् । ॥२६॥ जटामुकुटखण्डेन्दुमण्डितं फणिकङ्कणम् । व्यालयज्ञोपवीतं च साक्षसूत्रकमण्डलुम् ॥२६४॥ श्वेतपद्मासनासीनं भक्तिप्रवार्तिनाशनम् । मण्डले चन्द्रखण्डाभे टङ्काकारेऽथवार्चयेत् ॥२६॥ यथाशक्ति जपं कुर्यादङ्गानां च दशांशतः । गोभूहिरण्यवस्त्रादि मणिहेमादिभूषणम् ॥२६६।।
विहायाशेषनिर्माल्यं चण्डेशाय निवेदयेत् । • ध्वनिचण्डेश्वराय हूं फट् स्वाहा; इति मन्त्रेण
लेबद्रव्यानपानादि ताम्बूलं स्रग्विलेपनम् ॥२७॥ निर्माल्यं भोजनं तुभ्यं प्रदत्तं तु शिवाज्ञया । सर्वमेतक्रियाकाण्डं मया चएड तवाज्ञया ॥२८॥ न्यूनाधिकं कृतं मोहात्परिपूर्ण सदास्तु मे। इति विज्ञाप्य चण्डेशं दत्त्वा तस्य शम्बरान् ॥२६॥