________________
कर्मकाण्डक्रमावली। आहुतीः पञ्च मूलेन जुहुयात्तदनन्तरम् ॥२८१॥ ध्रुवाद्येन हृदा नाम शिवाग्निस्त्वमिति न्यसेत् । ब्रह्माणं शङ्करं विष्णुमनन्तं च हृदार्चयेत् ॥२८२॥ पूर्वायत्तरपर्यन्तं दिक्षु कुण्डादहिः क्रमात् । उदग्वाधारशक्त्यादि शिवमभ्यर्च्य पूर्ववत् ॥२८३॥ जुहुयान्मूलमन्त्रेण शक्त्याङ्गैश्च दशांशतः । शिवं विसृज्य भूरादित्रयस्य प्रणवान्वितम् ॥२४॥ क्रमेण योगपद्येन दत्त्वाहुतिचतुष्टयम् ।। डोहूंहूहूं हृदयायति पठित्वा मनसा सह ॥२८॥ वह्निं च विसृजेदेवमिति लीलावतीमतम् । ततः शिवान्तिकं गत्वा पूजाहोमादिकं मम ॥२८६॥ गृहाण भगवन्पुण्यफलमित्यभिधाय च। अर्बोदकेन देवाय मुद्रयोद्भवसंज्ञया ॥२८७॥ हृद्वीजपूर्वमूलेन स्थिरचित्तो निवेदयेत् । ततः पूर्ववदभ्यर्च स्तुत्वा स्तोत्रः प्रणम्य च ॥२८॥ अर्थ पराङ्मुखो दत्त्वा क्षमस्वेत्यभिधाय च । नाराचमुद्रयास्त्रेण फडन्तेनाणुसंचयम् ॥२८॥ संहृत्य दिव्यया लिङ्गे मूर्ध्नि मन्त्रेण योजयेत् । स्थण्डिले चाचिंते देवे मन्त्रसंघातमात्मनि ॥२०॥ नियोज्य विधिनोक्तेन विदध्याच्चाणुपूजनम् । गोमयालिप्तभूभागे यद्वा पीठेऽम्बरावृते ॥२६१॥