________________
कर्मकाण्डक्रमावली। पुनः सव्येन तो धृत्वा शंखसंनिभमुद्रया। समुन्नतोर्ध्वकायस्तु समपादः समुत्थितः ॥२६॥ नाभौ तन्मूलमादाय सुगग्रव्यग्रलोचनः । ब्रह्मादिकारणत्यागाद्विनिःसृत्य सुपुम्नया ॥२७०॥ वामस्तनान्तमानीय तयोर्मूलमतन्द्रितः ।। मूलमन्त्रमतिस्पष्टं वौषडन्तं समुच्चरन् ॥२७॥ तदग्नौ जुहुयादाज्यं यवसंमितिधारया । आचामं चन्दनं दत्त्वा ताम्बूलप्रभृतीनपि ॥२७२।। भक्तया तद्भतिमावर्त्य विदध्यात्प्रणति पराम् । वह्नौ शिवमथाभ्यर्च्य फडन्तास्त्रेण शम्बरान् ॥२७३॥ संहारमुद्रयाहत्य क्षमस्वेत्यभिधाय च । शम्बरान्परिधिस्थांश्च पूरकेन हृदाणुना ॥२७४॥ श्रद्धया परयात्मीये स्थापयेद्धृदयाम्बुजे।। सर्वपाकाग्रमानीय कृत्वा मण्डलकद्वयम् ॥२७॥
अन्तर्बहिर्बलि दद्यादाग्नेय्यां कुण्डसंनिधौ। डों हां रुद्रेभ्यः स्वाहा पूर्वे , डों हां मातृभ्यः स्वाहा दक्षे , डों हां गणेभ्यः स्वाहा पश्चिमे , डों हां यक्षेभ्यः स्वाहा उत्तरे , डों हां ग्रहेभ्यः स्वाहा ईशाने , 0 हां असुरेभ्यः स्वाहा आग्नेये , डों हां रक्षोभ्यः स्वाहा नैऋते, डों हां नागेभ्यः स्वाहा वायव्ये , डों हां नक्षत्रेभ्यः स्वाहा मण्डलमध्ये ईशाने , डों हां राशिभ्यः स्वाहा आग्नेये , डों हां विश्वेभ्यः स्वाहा नैऋते , डों हां क्षेत्रपालेभ्यः