________________
सोमशम्मुरचिता। त्रिसूत्रीवेष्टितग्रीवौ पूजितौ कुसुमादिभिः ॥२४२॥ कुशानामुपरिष्टात् तौ स्थापयित्वा स्वदक्षिणे। गव्यमाज्यं समादाय वीक्षणादिविशोधितम् ॥२४३॥ स्वकां ब्रह्ममयीं मूर्ति संचिन्त्यादाय तघृतम् । कुण्डोज़ तु त्रिधावर्त्य तापयित्वाग्निगोचरे ॥२४४॥ पुनर्विष्णुमयीं ध्यात्वा घृतमीशानगोचरे । धृत्वादाय कुशाग्रेण स्वाहान्तं शिरसाणुना ॥२४॥ जुहुयाद्विष्टरे बिन्दं रुद्ररूपमनन्तरम् । भावयेनिजमात्मानं नमो वृत्वा' प्लवेत तत् ॥२४६॥ प्रादेशमात्रदर्भाभ्यामङ्गुष्ठानामिकाग्रगैः । धृताभ्यां संमुखं वीरत्रेणोत्प्लवमाचरेत् ॥२४७॥ हृदात्मसंमुखं कृत्वा कुर्यात्संप्लवनं ततः । हृदा लब्धदग्धदर्भमस्त्रक्षेपात्परिभ्रमेत् ॥२४॥ दीप्तेनोपरि दर्भेण नीराज्यानेन दीपयेत् । अस्त्रमन्त्रेण दिग्बन्धं वह्नौ दर्भ परिक्षिपेत् ॥२४६।। क्षिप्त्वा घृते कृतग्रन्थि कुशं प्रादेशसंमितम् । पक्षद्वयमिडादीनां त्रयं चाज्ये विभागयेत् ॥२५॥ क्रमाद्भागत्रयादाज्यं सुवेणादाय होमयेत् ।
स्वेत्यग्नौ हेति तद्भागे शेषमाज्यं क्षिपेत्क्रमात् ॥२५॥ डों हां अग्नये स्वाहा, डों हां सोमाय स्वाहा , डों हां अग्नीषोमाभ्यां स्वाहा। १ 'धृत्या' क. । २ 'धृतग्रन्थि' क. ख. पाठः।
-
-