________________
२
कर्मकाण्डक्रमावली। जुहुयादाहुतीस्तिस्रः शिखया शिखयैव च ॥ २३१ ॥ वक्त्राङ्गकल्पनं कुर्याद्वक्त्रोद्घाटननिष्कृती। जातकर्म नृवर्मभ्यां दशमे मासि पूजयेत् ॥२३२॥ वह्नि सन्धुक्ष्य दर्भायैः स्नानं गर्भमलापहम् । सुवर्णवन्धनं देव्याः कृतं ध्यात्वा हृदार्चयेत् ॥ २३३ ॥ सद्यःसूतकनाशाय प्रोक्षयेदत्रवारिणा । कुण्डं तु बहिरस्त्रेण ताडयेद्वर्मणेक्षयेत् ॥२३४ ॥ अस्त्रेणोत्तरपूर्वाग्रान्मेखलासु बहिः कुशान् । भास्तीये स्थापयेत्तेन हृदा परिधिविष्टरान् ॥२३५ ॥ वक्त्राणामस्त्रमन्त्रेण ततो नालापनुत्तये । समिधः पञ्च होतव्याः प्रान्ते मूले घृतप्लुताः ॥ २३६॥ ब्रह्माणं शङ्करं विष्णुमनन्तं च हृदार्चयेत् । . पूर्वाद्युत्तरपर्यन्तं परिधिस्थाननुक्रमात् ॥ २३७ ।। इन्द्रादीनीशपर्यन्तान् विष्टरस्थाननुक्रमात् । अग्नेरभिमुखीभूतान्निजदिक्ष हृदार्चयेत् ॥२३८ ॥ निवार्य विश्नसंघातं बालकं पालयिष्यथ । शैवीमाज्ञामिमां तेषां श्रावयेत् तदनन्तरम् ॥२३६॥ गृहीत्वा स्रस्रवावदनाधोमुखौ क्रमात् । प्रताप्याग्नौ विधा दर्रुर्मूलमध्याग्रगं स्पृशेत् ॥२४० ॥ कुशपृष्ठप्रदेशेषु आत्मविद्याशिवात्मकम् । क्रमात्तत्त्वत्रयं न्यस्य हां-ही-हूँ-शम्बरैः क्रमात् ॥ २४१॥ खुचि शक्ति स्रवे शम्भुविन्यस्य हृदयाणुना ।