________________
सोमशम्भरचिता।
२५ अतसीपुष्पसंकाशां तत्र देवीं सुलक्षणाम् । तद्वद्वागीश्वरी देवी हृदा विन्यस्य पूजयेत ॥ २२१॥ वह्नि शुद्धाश्रयानीतं शुद्धपात्रोपरिस्थितम् । क्रव्यादांशं परित्यज्य ईक्षणादिविशोधितम् ॥२२२॥ प्रौदर्य वैन्दवं भौतमेकीकृत्यानलत्रयम् ।
विन्यसेद्वह्निचैतन्यं वह्निबीजेन दैशिकः ॥ २२३ ॥ रों हूँ वह्निचैतन्याय नमः।
संहितामन्त्रितं वह्नि धेनुमुद्रामृतीकृतम् । रक्षितं हेतिमन्त्रेण कवचेनावगुण्ठितम् ॥२२४ ॥ पूजितं त्रिः परिभ्राम्य कुण्डस्योक्तं प्रदक्षिणम् । शिवबीजमिति ज्ञात्वा वागीशीगर्भगोचरे ॥ २२५॥ वागीश्वरेण देवेन क्षिप्यमाणं विभावयेत् । भूमिस्थजानुको मन्त्री हृदात्मसंमुखं क्षिपेत् ॥२२६ ॥ ततोऽन्तःस्थितबीजस्य नाभिदेशे समूहनम् । संवृतिं परिधानस्य शौचमाचमनं हृदा ॥२२७ ॥ गर्भाग्नेः पूजनं कृत्वा तद्रक्षार्थ शराणुना। बनीयाद्दर्भ देव्याः कङ्कणं पाणिपल्लवे ॥ २२८ ।। गर्भाधानाय संपूज्य सद्योजातेन पावकम् । ततो हृदयमन्त्रेण जुहुयादाहुतित्रयम् ॥२२६ ॥ पुंसवनाय वामेन तृतीये मासि पूजयेत् ।
आहुतित्रितयं दद्याच्छिरसाम्बुकणान्वितम् ॥२३० ॥ सीमन्तोन्नयनं षष्ठे मासि संपूज्य रूपिणा ।