________________
कर्मकाण्डक्रमावली। गुह्यातिगुह्यगोप्ता त्वं गृहाणामत्कृतं जपम् । सिद्धिर्भवतु मे देव त्वत्प्रसादात्त्वयि स्थिता ॥१०॥ भोगी श्लोकं पठित्वामुं दतहस्तेन शंभवे । मूलाणुनार्घतोयेन वरहस्ते निवेदयेत् ॥२११॥ यत्किंचित्कुर्महे कर्म सदा सुकृतदुष्कृतम् । तन्मे शिवपदस्थस्य हूं क्षः क्षपय शङ्कर ॥२१२॥ शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत् । शिवो जयति सर्वत्र यः शिवः सोऽहमेव हि ॥२१३॥ श्लोकद्वयमधीत्यैवं शिवार्पितमना मुनिः। जपं मुमुक्षुर्देवाय तथैव विनिवेदयेत् ॥२१४॥ दशांशेन शिवाङ्गानां जपं कृत्वा निवेदयेत् । अर्घधूपादिकं दत्त्वा स्तुत्वा च विविधैः स्तवैः ॥२१॥ शिवं प्रदक्षिणीकृत्य संहृष्टं शिवविग्रहम् । भक्या प्रणाममष्टाङ्गं वि
॥२१६॥ समाधिना तपोध्यानधारणाभावनाजपैः । निजमृतौं गुरोर्मतौं पुस्तके सलिलेऽनले
॥२१७॥ चित्रादौ स्थण्डिले वापि लिङ्गे त्वत्यन्तमुत्तमम् । यजनं बहुधा शंभोर्यथादृष्टमुदाहृतम् ॥२१८॥ अथेशादेशमासाद्य यायादग्निनिकेतनम् । प्रदक्षिणं ससंभारमधपात्रकरो मुनिः | ॥२१॥ यागोपकरणं सर्व दिव्यदृष्ट्यावलोकनम् । कुण्डनाभिं पुरस्कुर्वन्नुपविश्योत्तराननः ॥२२०॥