________________
सोमशम्मुरचिता। हृदयं चन्द्रसंकाशं शिरश्चामीकरप्रभम् ॥२०॥ शिखां सिन्दूरवर्णाढ्यां कवचं भृङ्गभास्वरम् । नेत्रमग्निप्रतीकाशमस्त्रं स्यात्कृष्णपिङ्गलम् ॥२०१॥ पद्मासनस्थानर्धेन्दुमुकुटानसुधारिणः। त्रिलोचनांश्चतुर्बाहून्सर्वाभरणभूषितान् ॥२०२॥ शिवस्याभिमुखान् शक्तिशूलाभयवरान्वितान् । चतुर्वक्त्रान् निजैर्मन्त्रैः पूजयेद्दलसंस्थितान् ॥२०३॥ दंष्ट्राकरालमप्यनमस्त्रेणाशनिसुप्रभम् ।
लिङ्गपूर्वायुदीच्यन्तं चतुर्दलगतं यजेत् ॥२०४॥ डों हां हूं शिवाय नमः । ॐ हां हृदयाय नमः, डों ही शिरसे स्वाहा, ओं हूं शिखायै नमः, ओं हैं कवचाय नमः, ओं हौं नेत्रेभ्यो नमः, ओं हः अस्त्राय नमः।
पाद्याचमनमर्थ्य च हृदादीनां निवेदयेत् । धूपदीपादिनैवेद्यं तोयमाचमनीयकम् ॥२०॥ करोद्वर्तनताम्बूलं मुखवासं च दर्पणम् । दद्यात्सपरिवाराय मूलमन्त्रण शम्भवे । ॥२०६॥ शिरस्यारोप्य देवस्य दूर्वाक्षतपवित्रकम् । स्तूयमानं विरिश्च्याद्यैः संतुष्टं भावयेच्छिवम् ॥२०७॥ मानसोपांशुभाष्याणां कुर्यादेकतमं जपम् । मूलस्याष्टशतं जप्त्वा न द्रुतं न विलम्बितम् ॥२०॥ हृदाभिमन्त्रितं वर्मवेष्टितं खगरक्षितम् । कुशपुष्पाक्षतोपेतं मुद्रयोद्भवसंज्ञया ॥२०६॥