________________
कर्मकाण्डक्रमावली। अयं शिरसि देवस्य पुष्पर्वाक्षतानि च ॥१८॥ एवं संस्कृत्य संस्कारैर्दशभिः परमेश्वरम् ।। यजेत्पञ्चोपचारेण विधिना कुसुमादिभिः ॥१०॥ अभ्यज्योद्वर्त्य निर्भय॑ राजिकालवणादिभिः । अोंदविन्दुपुष्पाद्यैर्गड्डुकैः स्नापयेच्छिवम् ॥१६॥ पयोदधिघृतक्षौद्रशर्कराद्यैरनुक्रमात् । ईशादिमन्त्रितै त्यै मुक्त्यै तेषां विपर्ययः ॥१२॥ तोयधूपान्तरैः सर्वैर्मलेन स्नापयेच्छिवम् । विरूक्ष्य यवचूर्णेन यथेष्टं शीतलं जलम् ॥१६॥ स्वशक्त्या गन्धतोयेन संस्नाप्य जगदीश्वरम् । परिशुद्धेन वस्त्रेण विमृज्यायं निवेदयेत् ॥१४॥ अधो न बन्धयेन्मुद्रां नोपरि भ्रामयेत्करम् । सर्वदा कुसुमैः कार्य लिङ्गस्याशून्यमस्तकम् ॥१६॥ चन्द्रचन्दनकाश्मीरैः समालभ्य सुगन्धिभिः । पुष्पैराभरणैर्वस्त्रैः समभ्यर्च्य शिवाणुना ॥१६६॥ धूपभाजनमस्त्रेण प्रोक्ष्याभ्यर्च्य हृदाणुना । अस्त्रेण पूजितां घण्टां वादयन् गुगगुलं दहेत् ॥१७॥ दद्यादाचमनं पश्चात्स्वधान्तहृदयाणुना । दीपभाजनमस्त्रेण प्रोक्ष्याभ्यर्च्य हृदाणुना ॥१८॥ आरात्रिकां समुत्सार्य तथैवाचमनं पुनः। प्रणम्यादाय देवाज्ञां भोगाङ्गानि प्रपूजयेत् ॥१६॥ अग्नीशासुरवायूनां दिक्षु चत्वार्यनुक्रमात् ।