________________
सोमशम्मुरचिता।
२१ संनिधानादिकं कृत्वा निष्ठुरायां निरोधयेत् ॥१७॥ कालकल्या फडन्तेन विनानुत्सार्य रिष्टिना। लिङ्गमुद्रां नमस्कारं हृदा वद्ध्वावगुण्ठयेत् ॥१७॥ सादरं संमुखीभाव आवाहनमिहोच्यते । भक्त्या निवेशनं तत्र स्थापनं कथितं बुधैः जगन्नाथ तवास्मीति यत्स्वीकारोपदर्शनम् । विभुत्वेऽपि तदीशस्य संनिधानं न चान्यथा ॥१८॥ श्रा कर्मकाण्डपर्यन्तं संनिधेर्योऽपरिक्षयः । स शंभोर्व्यापकत्वेऽपि निरोधः परिगीयते ॥१८२॥ शिवस्यानन्दबीजस्य बोधानन्दमयस्य च । अभक्तेष्वप्रकाशो यस्तद्भवेदवगुण्ठनम् ॥१८३॥ सकलीकरणं कृत्वा मन्त्रैः षड्भिरथैकताम् । अङ्गानामङ्गिना साधं विदध्यादमृतीकृतिम् ॥१८४॥ यथा दृश्यः समर्थश्च मार्तण्डचण्डरश्मिभिः । तद्वदङ्गैनिजैर्देवो ध्यातव्यः परमेश्वरः ॥१८॥ हृदयं तस्य चिच्छक्तिः शिरश्चैश्वर्यमष्टधा । नान्याधीनं वशित्वं यत् सा शिखोपरिवर्तिनी ॥१८६॥ अभेद्यं परमेशस्य तेजः कवचमुच्यते । प्रतापो दुःसहः शस्त्रमन्तरायापहारकम् ॥१८७॥ नमः स्वधा च स्वाहा च वौषट चेति यथाक्रमम् । हृत्पुरःसरमुच्चार्य पाद्यादीनि निवेदयेत् ॥१८॥
पाद्यं पादाम्बुजद्वन्द्वे वक्त्रेष्वाचमनीयकम् । 1 'नन्दबोधम्य'ख पाठ · ।