________________
कर्मकाण्डक्रमावली। तत्रस्थं यागसम्भारं प्रोक्षयेदत्रवारिणा । अभिमन्त्र्य हृदा पिण्डैस्तनुत्रेण च वेष्टयेत् ॥१५४॥ दर्शयित्वाऽमृतां मुद्रां पुष्पं दत्त्वा निजासने । विधाय तिलकं मूर्ध्नि पुष्पं मूलेन योजयेत् ॥१५॥ स्नाने देवार्चने होमे भोजने यागयोगयोः।
आवश्यके जपे धीरः सदा वाचंयमो भवेत् ॥१५६॥ नादान्तोच्चारणान्मन्त्रं शोधयित्वा पुराकृताम् । पूजामभ्यर्च्य गायत्र्याः सामान्याय॑मुपाहरेत् ॥१५७॥ ब्रह्मपञ्चकमावर्त्य माल्यमादाय लिङ्गतः।। ऐशान्यां दिशि चण्डाय हृदयेन निवेशयेत् ॥१५॥ प्रक्षाल्य पिण्डिकां लिङ्गमस्त्रतोयैस्ततो हृदा । अर्घ्यपात्राम्बुना सिञ्चेदिति लिङ्गविशोधनम् ॥१५॥
इत्थमात्माश्रयद्रव्यमन्त्रलिङ्गविशुद्धिषु । - कृतासु देवदेवस्य पूजनं नान्यथा भवेत् ॥१६०॥ तत्र पीठस्य वायव्यां दिशि डों हां गणपतये नमः । ऐशाने डों हां गुरुभ्यो नमः ।
ततः कूर्मशिलासीनां गोक्षीरसितविग्रहाम् । ..
यजेदीजाङकुराकारां शक्तिमाधाररूपिणीम् ॥१६१॥ ओं हां आधारशक्तये नमः।
कुन्देन्दुधवलोद्दण्डसरोजमुकुलाकृतिम् ।
यजेब्रह्मशिलारूढं शिवस्यानन्तमासनम् ॥१६२॥ डों हां अनन्तासनायनमः । .