________________
१७
॥१४३॥
॥१४४॥
॥१४॥
॥१४६॥
॥१४७॥
सोमशम्भुरचिता। हृद्यासनमिदं दत्त्वा मूर्तिमावाहयेत्ततः । दृष्टा शिवमयं तस्यामात्मानं द्वादशान्ततः अथ तां शक्तिमन्त्रेण वौषडन्तेन सर्वतः । दिव्यामृतेन संसाव्य कुर्वीत सकलीकृतिम् हृदयादिकरान्तेषु कनिष्ठाघङ्गुलीषु च । हृदादिमन्त्रविन्यासः सकलीकरणं मतम् क्षिपेत्सर्वासु काष्ठासु तालत्रयपुरःसरम् । छोटिकाभिः शिवस्यास्त्रं रक्षार्थं विघ्ननाशनम् प्राकारेण तनुत्रेण तद्धहिः परिखान्वितम् । शक्तिजालमतचोर्ध्व ततश्च प्रवितानयेत् दर्शयित्वा महामुद्रामापादतलमस्तकाम् । भावोपनीतपुष्पाद्यैर्हदम्भोजे शिवं यजेत् पूरकाकृष्टपीयूषहविषा च शिवाणुभिः । नाभिकुण्डे स्वतःसिद्ध तर्पयेत्तु शिवानलम् निर्भसितशरच्चन्द्रबिन्दुरूपं महेश्वरम् । ललाटपट्टमध्यस्थं चिन्तयेच्छुभविग्रहम् एकं स्वर्णादिपात्राणां पात्रमस्वाम्बुशोधितम् । बिन्दुप्रसूतपीयूषगन्धतोयाक्षतादिना हृदापूर्य षडङ्गेन पूजयित्वाभिमन्त्रयेत् ।। संरक्ष्य हेतिमन्त्रेण कवचेनावगुण्ठयेत् रेचयित्वाय॑मष्टाङ्गं रेचयेद्धेनुमुद्रया। अभिषिञ्चेदथात्मानं मूर्ध्नि तत्तोयबिन्दुना
॥१४८॥
॥१४॥
॥१५॥
॥१५॥
॥१५२॥
॥१५३॥