________________
कर्मकाण्डक्रमावली। पृथ्वीवातौ पयोवह्नी द्वौ द्वौ शोध्यौ परस्परम् । आकाशं चाविरोधेन यथा शोध्यं तथा शृणु ॥१३२॥ पार्थिवं मण्डलं पीतं कठिनं वज्रलाञ्छितम् । ह्लामित्यात्मकवीजेन तन्निवृत्तिकलात्मकम् ॥१३३॥ पादादारभ्य मूर्धान्तं विचिन्त्य चतुरश्रकम् । उद्घातपञ्चकेनैव वायुभूतं विचिन्तयेत् ॥१३४॥ अर्धचन्द्रं द्रवं सौम्यं शुभ्रमम्भोजलाञ्छितम् । ह्वीमित्यनेन बीजेन प्रतिष्ठारूपतां गतम् ॥१३॥ संयुक्त वाममन्त्रेण पुरुषोत्तमकारणम् । प्राप्यं चतुर्भिरुद्घातैर्वह्निभूतं विशोधयेत् ॥१३६॥ आग्नेयं मण्डलं त्र्यथ रक्तं स्वस्तिकलाञ्छितम् । हमित्यनेन मन्त्रेण विद्यारूपं विभावयेत् ॥१३७॥ घोरेण त्रिभिरुवातैलभूतं विशोधयेत् । षडनं मण्डलं वायोबिन्दुभिः षड्भिरङ्कितम् ॥१३८॥ कृष्णं यैमितिबीजेन जातं शान्तिकलामयम् । संचिन्त्योद्घातयुग्मेन पृथ्वीतत्वं विशोधयेत् ॥१३॥ नभो बिन्दमयं वृत्तं विन्दशक्तिविभषितम् । व्योमाकारं सुवृत्तं च शुद्धस्फटिकनिर्मलम् ॥१४०॥ हुंकारेण फडन्तेन शान्त्यतीताकलामयम् । ध्यात्वैकोद्घातयोगेन सुविशुद्धं विभावयेत् ॥१४॥ आप्याययेत् ततः सर्वं मूलेनामृतवर्षिणा । आधाराख्यमनन्तं च धर्मज्ञानादिपङ्कजम् ॥१४२॥