________________
9
सोमशम्भुरचिता। पवित्राङ्गप्रजप्तेन वस्त्रपूतेन वारिणा । . पूरयेदस्वधौतांस्तान्गायच्या हृदयेन वा गड्डुकाक्षतपुष्पादि सर्व द्रव्यसमुच्चयम् । सनिधीकृत्य पूजा) भूतशुद्ध्यादिमाचरेत् ॥१२२॥ देवदक्षिणदिग्भागे सन्निविष्टः सुखासने । उत्तरास्यो विनीतात्मा न्यस्तमन्त्रकरद्वयः। ॥१२३॥ संहारमुद्रयादाय मूलमन्त्रेण विग्रहात् । भोग्यकोपभोगार्थ विधानज्ञो हृदम्बुजे ॥१२४॥ पाणिकच्छपिकायां च द्वादशान्तपदेऽथवा । निधाय निजमात्मानं पञ्चभूतानि शोधयेत् ॥१२॥ चरणाङ्गुष्टयुग्माधः संचिन्त्य विमलद्युतिम् । सुशिरान्तबहिः शक्तिं व्यापिनी चिन्तयेदधः ॥१२६॥ हुंकारे ब्रह्मरन्ध्रस्थे प्रज्वलत्पावकप्रमे । विधाय प्राणसंरोधं चित्तं मन्त्री निवेशयेत् । ॥१२७॥ रेचकान्ते फडन्तेन तेन हृत्कएठतालुषु ।। भ्रूमध्ये ब्रह्मरन्ध्रे च भित्त्वा ग्रन्थिं निवर्त्य च ॥१२८॥ हंकारं मूर्ध्नि विन्यस्य जीवं हृदयसंपुटे । पूरकाहृतचैतन्यं हूं शिखोपरि विन्यसेत् ॥१२६। संशुद्धं बिन्दुभूतं तं ध्यात्वा कृत्वा च कुम्भकम् । रेचकेन शिवे विद्वानेकोद्घातेन योजयेत् ॥१३०॥ बीजवृत्त्या शिवे लीनं प्रतिलोमं स्वहेतुषु । तत्त्वानि बिन्दुपर्यन्तं लयं नीत्वा विशोधयेत् ॥१३१॥