________________
कनकाएडक्र
अभिधाय क्षमस्वेति फडन्तेन शराणुना ॥१.१३॥ समाहृत्याणुसंघातं संहारिण्याथ संहतम् ।
हृत्पुण्डरीकमध्यस्थे' शिवसूर्ये निवेशयेत् ॥११४॥ ततः डों अः तेजश्चण्डाय नमः
अनेनादित्यनिर्माल्यं चण्डाय विनिवेदयेत् ।
ईशकायप्रतिष्ठाय वेरित्यर्चने विधिः ॥ ॥११॥ इति आदित्यपूजनविधिः॥ __ अथाचम्य विधानेन प्रणवार्धकराम्बुजः।।
द्वारमस्वाम्बुना प्रोक्ष्य द्वारपालान्प्रपूजयेत् ॥११६॥ डों हां गणपतये नमः, डों हां सरस्वत्यै नमः, डों हां लक्ष्म्यै नमः इति ऊोडम्बरके; डों हां नन्दिने नमः, डों हां गङ्गायै नमः इति दक्षिणशाखायां; डों हां महाकालाय नमः, डों हां यमुनायै नमः इति वामशाखायाम् ;
दिव्यदृष्टिनिपातेन दिव्यानुपरिवर्तिनः । ज्वलन्नाराचमुद्राणुं पुष्पं क्षिप्स्वान्तरिक्षगान् ॥११७॥ दक्षपाणेत्रिभिर्धातै भूमिस्थांत्रिविधानिति । विनानुत्सारयेन्मन्त्री यागमन्दिरमध्यगः ॥११८॥ देहली लवयेत्किञ्चिद्वामशाखां समाश्रयन् ।
प्रविश्य दक्षपादेन विन्यस्यास्त्रमुडम्बरे ॥११॥ डों हां वास्त्वधिपतये ब्रह्मणे नमः इति ब्रह्मस्थाने पुष्पं दद्यात् । निरीक्षणादिभिः सास्त्रैः शुद्धानादाय गड्डुकान् ।
लब्धानुज्ञः शिवान्मौनी गङ्गादिकमनुस्मरेत् ॥१२०॥ 'स्थ' क० पाठः।