________________
कर्मकाण्डक्रमावली . नवमीं कर्णिकामध्ये विस्फुरामासु योजयेत् रां विस्फुरायै नमः, अर्कासनाय नमः। इति अर्कासनसम्पूज्य
डों धवलाम्भोरुहारूढं दाडिमीकुसुमप्रभम् । स्फुरद्रत्नमहातेजोवृत्तमण्डलमध्यगम् ॥१०॥
अंसासक्तस्फुटश्वेतसनालाब्जकरद्वयम् । - एकास्यं चिन्तयेद्भानुं द्विभुजं रक्तवाससम् ॥१०१॥ डों हां खशोल्काय सूर्यमूर्तये नमः; इत्यनेन आसनोपरि मूर्ति विन्यस्य ललाटाकृष्टस्फुरदरुणबिम्बमञ्जलौ विचिन्त्य, डों हां ह्रीं सः सूर्याय नमः; इत्यनेन मूलमन्त्रेण तद्व्यापकमारोपयेत् ।
आवाहनादिमुद्राभिर्विधायावाहनादिकम् । प्रीतये ग्रहराजस्य बिम्बमुद्रां प्रदर्शयेत् ॥१०२॥ सकलीकरणं कृत्वा कार्य तच्च खशोल्किना । पाद्यमाचमनीयं च शिरोष गात्रपूजनम् ॥१०३॥ संपूज्य गन्धपुष्पाधैर्मूलमन्त्रेण भास्करम् । पद्माख्यां बिम्बमुद्रां च भक्त्या तस्मै प्रदर्शयेत् ॥१०॥ सौम्यानि रक्तवर्णानि वरदाब्जकराणि च । भूषिताणि द्विहस्तानि भानोरङ्गानि भावयेत दंष्ट्राकरालमत्युग्रं प्रज्वलत्पावकप्रभम् ।
तर्जयद्विघ्नसंघातमित्थमस्त्रं विचिन्तयेत् ॥१०६॥ ___ों अं हृदयाय नमः अग्निदले, डॉ अर्काय शिरसे नमः तयोर्लक्षणं:- पद्माकारौ करौ कृत्वा प्रतिनिष्टे तु मध्यमे ।
अङ्गुल्यौ धारयेत्तस्मिन् बिम्बमुद्रेति सोच्यते॥