________________
मोमशम्भुरचिता। रक्तपुष्पादितोयेन मूलमन्त्रेण भानवे ॥१४॥ यदा यदा समाचामेन्मन्त्रन्यासं तदा तदा । कुर्वीत करकायेषु मन्त्री मन्त्रार्थसिद्धये ।। ॥१५॥ अथ मार्तण्डदेवस्य साङ्गमर्चनमुच्यते । कृत्वा कराङ्गविन्यासं तन्मन्त्रैर्हृदयादिभिः ॥१६॥
आत्मानं रविरूपेण संचिन्त्यार्घस्य भाजनम् । पूरयेद्रक्तवर्णेन ललाटाकृष्टबिन्दुना
॥७॥ तत्संपूज्य खेरङ्गैः कृत्वा रक्षावगुण्ठनम् । संप्रोक्ष्य त्र्यञ्जलैव्यं पूर्वास्यो भानुमर्चयेत् ॥८॥ डों अं दण्डिने नमः, डों अंपिङ्गलाय नमः, इति दक्षिणवामयोर्द्वारपालद्वयम् ; डों गं गणपतये नमः ऐशान्याम, डों गुं गुरुभ्यो नमः आग्नेय्याम्, डों अं प्रभूतासनाय नमः इति पीठमध्ये ____ आग्नेयादेशपर्यन्तं कोणेषु च यथाक्रमम् । डॉ अं विमलाय नमः, डों अं साराय नमः, डों अं आराध्याय नमः, डों अं परमसुखाय नमः, इति सितरक्तपीतहरितसिंहरूपाणि विदिनु अर्चयेत् । तदुपरि अं पद्मासनाय नमः, इति सितपद्ममध्ये । तदुपरि डों रां दीप्तायै नमः, डों - सूक्ष्मायै नमः, डों रूं जयायै नमः, डों रै भद्रायै नमः, डों रौं विभूतये नमः, डों रां विमलायै नमः, डों रां अमोघायै नमः, डों रां विद्युतायै नमः, डों रां सर्वतोमुख्यै नमः .
- पूर्वादीशानपत्रान्ता अष्टौ शक्तीः प्रपूजयेत् ॥६॥ 1 'पर्यन्ताः ' के पाठः।