________________
कर्मकाण्डक्रमावली। शुक्लाम्बरधरां शुक्लां वनमालोपवीतिनीम् । तार्क्ष्यपद्मासनासीनामुद्भिन्ननवयौवनाम् शंखचक्रधरां वामे दक्षिणे सगदाभयाम् । ध्यायेन्मध्यन्दिने देवीं वैष्णवी सर्वभूषणाम् ॥७६।। नीलोत्पलदलाभासां किश्चिञ्चलितयौवनाम् । चतुर्भुजां त्रिनेत्रां च जटाखण्डेन्दुमण्डिताम् ॥७७॥ त्रिशूलाक्षधरां दक्ष वामे साभयशक्तिकाम् । रौद्रीं ध्यायेद्वषाजस्थां काले वास्तमितेऽरुणे ॥७॥ कृष्णाजिनधराः सर्वाः साक्षिण्यः सर्वकर्मणाम् । तत्प्रभामण्डलाभोगप्रविष्टां स्वतनुं स्मरेत् ॥७॥ ज्ञानिनां परमाः सन्ध्याश्चतस्रोऽभिदधेऽधुना । एकैवानेकतां याति शिवशक्तिरूपाधितः ॥८ ॥ मृणालतन्तुवत्तन्वी रक्तां शुक्लां सितेतराम् । तुर्यां त्वरूपां कृष्णां वा या निशीथे विभाव्यते ॥८॥ हृद्विन्दुब्रह्मरन्ध्रेषु परे चैताः स्थिताः क्रमात् । तिस्रः सत्त्वादिसंयुक्ताश्चतुर्थी गुणवर्जिता ॥२॥ मूर्याचन्द्रमसोरन्ते द्वे सन्ध्ये प्राणयोगिनाम् । शिववोधः परो यस्तु सा सन्ध्या परमोच्यते ॥३॥ पैन्यं मूले प्रदेशिन्याः कनिष्ठायाः प्रजापतेः । ब्राह्ममङ्गुष्ठमूलस्थं तीर्थ दैवं कराग्रतः ॥४॥ सव्यपाणितले वह्वस्तीर्थ सौम्यं तु वामतः ।
ऋषीणां तु समग्रेषु अङ्गलीपर्वसन्धिषु ॥८ ॥ 1 'निविष्टां' ग्व०।