________________
सोमशम्मुरचिता। ततः शिवात्मकैर्मन्त्रैः कृत्वा तीर्थं शिवात्मकम् । मार्जनं संहितामन्त्रैस्तत्तोयेन समाचरेत् । ॥८६॥ वामपाणिपतत्तोययोजनं सव्यपाणिना । उत्तमाङ्ग क्रमान्मत्रैर्मार्जनं समुदाहृतम् ॥८७॥ नीत्वा तदुपनासाग्रं दक्षपाणिपुटे स्थितम् । बोधरूपं सितं तोयं वामेनाहत्य कुम्भयेत् ।
॥८॥ तत्पापं कजलाभासं पिङ्गयारेच्य मुष्टिना । क्षिपेद्वज्रशिलावद्यत् तद्भवेद्रघमर्षणम् ॥८६॥ स्वाहान्तशिवमन्त्रेण कुशपुष्पाक्षतान्वितम् ।
शिवायााञ्जलिं दत्त्वा गायत्री शक्तितो जपेत् ॥१०॥ डों तन्महेशाय विद्महे वाग्विशुद्धाय धीमहि तन्नः शिवः प्रचादयात् । डों हूं शिवाय स्वाहा । डों हां हृदयाय स्वाहा, डों ही शिरसे स्वाहा, डों हूं शिखायै स्वाहा, डों हैं कवचाय स्वाहा, डों हौं नेत्रेभ्यः स्वाहा, डों हः अस्त्राय स्वाहा; इति मन्त्रान्देवतीर्थेन तर्पयेत् । डों हां आदित्येभ्यः स्वाहा, डों हां वसुभ्यः स्वाहा, डोहां रुद्रेभ्यः स्वाहा, उो हां शिवेभ्यः स्वाहा, डों हां साध्येभ्यः स्वाहा, डों हां मरुद्भ्यः स्वाहा, डोहांभृगुभ्यः स्वाहा, डों हां अङ्गिरसेभ्यः स्वाहा; इत्यष्टौ देवगणान् देवतीर्थन तर्पयेत् । ततः कण्ठोपवीती डों हां अत्रये नमः, ॐ हां वसिष्ठाय नमः, डों हां पुलस्तये नमः, डों हां क्रतवे नमः, डों हां भरद्वाजाय नमः, डों हां विश्वामित्राय नमः, डों हां प्रचेतसे नमः, डों हां मरीचये नमः: इति आर्षतीर्थेन ऋषींस्तर्पयेत् ।