________________
सोमशम्भुरचिता। भुञ्जन्गुदेन्द्रियस्रावे शौचे माने अपि द्विधा । आचाममाचरन्धोरसहस्रं च जपेदभुक् ॥६४॥ अनाचान्तः पिबेत्तोयं भक्षयेदथ मूत्रयेत् । जस्वाऽघोरं निराहारः पञ्चगव्येन शुध्यति ॥६ ॥ विना यज्ञोपवीतेन पिबेद्भजीत वा यदि । जत्वाऽघोरं निराहारः पञ्चगव्यं पिबेत्तदा ॥६६॥ स्वधान्तैरात्मतत्त्वादिः प्रमृज्याधरौ हृदा । दक्षिणाङ्गुष्ठमूलेन मध्याभिस्तिसृभिः स्पृशेत् ॥६७॥ अङ्गुष्ठतर्जनीमूर्ना स्पृशेन्नासापुटद्वयम् । अङ्गुष्ठानामिकाग्रेण चक्षुः श्रोत्रं मुहुर्जलैः ॥८॥ कनिष्ठाङ्गुष्ठयुग्मेन नाभिं वक्षस्तलेन तु । अङ्गुलीभिः समस्ताभिः शिरोंऽसौ च हृदा स्पृशेत् ॥६६॥ सकलीकरणं कृत्वा प्राणायामेन संस्थितः । त्रिः समावर्तयेन्मन्त्री मनसा शिवसंहिताम् ॥७॥ पूर्ववत्पुनराचम्य पिधाय श्रोत्रवाङ्मनः । कृत्वा कराङ्गपिन्यासमेकचित्तो व्यवस्थितः ॥७॥ ब्रह्माणी वैष्णवी रौद्रीं रक्तां शुक्लां सितेतराम् । प्रातमध्याह्नसायाह्नसन्ध्या ध्यायेदनुक्रमात् ॥७२॥ रक्तभूषाम्बरां रक्ता जटायज्ञोपवीतिनीम् । हंसपद्मासनां बाला चतुर्वक्त्रां चतुर्भुजाम् ॥७३॥ स्रगक्षमालिनी दक्षे वामे दण्डकमण्डलुम् । ब्राह्मीमष्टदृशं ध्यायेत्प्रातस्तारकितेऽम्बरे
॥७४॥ 1 'सटायज्ञो' क०।