________________
६
कर्मकाण्डक्रमावली। स्वजातीशायुतं जप्त्वा दिनत्रयमुपोषितः । अन्त्यजेन सह स्पर्श विशुद्धो जायते नरः ॥५३॥ जाते चण्डालसंपर्के दक्षिणस्यायुतत्रयम् । जत्वा कृच्छमनुष्ठाय प्रम्लाति सकलं मलम् ॥५४॥ पुरुषाघोरबामाजा जातीशा ब्राह्मणादिषु । साधारणोऽप्यपरस्तु ईशः साधारणः परः ॥५५॥ उपवासं प्रकुर्वीत स्वजात्युच्छिष्टभोजने । मामीप्योच्छिष्टभोक्ता वा जपेदपि सहस्रकम् ॥६॥ भुक्त्वा वैश्यस्य शूद्रस्य समुच्छिष्टं यहं त्र्यहम् । क्रमेणोपवसेद्विग्रस्तथाऽघोरायुतं जपेत् ॥७॥ द्विधाऽपि सूतके भुक्त्वा समुपोष्य विशुध्यति । वामस्य तु सहस्रेण कामात्तद्विगुणं चरेत् ॥८॥ भुक्त्वा तत्र स्वकीये तु सहस्रं दक्षिणं जपेत् । उपवाससमोपेतं कामात्तद्विगुणं चरेत् ॥५४॥ कारुदासीनरेन्द्राणां सूतकं नैव विद्यते ।. निर्वाणदीक्षितानां तु पृथग्भागभुजां न तत् ॥६०॥ मत्स्यकण्टकशम्बूकान्मुक्त्वा नखकमर्दकान् । . पीत्वा नवाम्बु चोपोष्य पञ्चगव्येन शुध्यति ॥६॥ पीतशेषं तु यत्तोयं प्रमादाद्यदि तत्पिबेत् । उपोष्य रजनीमेकां पञ्चगव्यं पिबेदपि ॥६॥ पीयमानपतत्तोयजुष्टमन्नमदन्नरः ।
सहस्रं रूपिणो जप्त्वा पञ्चगव्येन शुध्यति ॥३॥ 'शम्बूकः सामुद्रः प्राणिविशेपः ।