________________
सोमशम्भुरचिता। गणान्नं गणकस्यान्नं सत्त्रस्यान्नं तथैव च ।। भुक्त्वान्नं भोजकानां च व्रतं चान्द्रायणं चरेत् ॥४२॥ पाकादियज्ञगोदाने चौलोद्वाहव्रतेषु च। तथा साचारवर्णानां भुञ्जानोऽन्नं न दुष्यति ॥४३॥ योऽन्नं नामन्त्रितो भुङ्क्ते यस्य वर्णस्य दीक्षितः। तज्जातीशस्वजातीशौ जत्वैकत्र स शुध्यति ॥४४॥ एको द्वौ वा त्रयश्चैव दिवसास्तस्य शुद्धये । क्षत्रविटशूद्रजातीनां जपस्यानुक्रमेण तु ॥४ ॥ स्नानं पूजां जपं होममजीर्णे परिवर्जयेत् । जीर्णे नात्वा शतं साष्ट गायत्र्याः परिवर्तयेत् ॥४६॥ दीक्षितेन सवर्णेन समुच्छिष्टेन दीक्षितः । उच्छिष्टस्पृष्ट आचम्य स्वजातीशशतं जपेत् ॥४७॥ तस्मिन्नदीक्षितैः स्पृष्टे स्नात्वाचम्य शतद्वयम् । सामीप्याद्दीक्षिते तद्वदुपवासोऽप्यदीक्षिते ॥४८॥ वैश्यशूद्रौ द्विजः स्पृष्ट्वा समुपोष्य घ्यहं त्र्यहम् । तज्जातीशस्वजातीशावेकीकृत्य जपेत्क्रमात् ॥४६॥ क्षत्रियः शूद्रसंपर्कात् तौ जपेद्विरुपोषितः । एतानदीक्षितान्स्पृष्ट्वा पूर्वोक्तद्विगुणं चरेत् ॥५०॥ पादहीनं क्षत्रियस्तु वैश्योऽधैन विवर्जितम् । पादत्रयोज्झितं शूद्रो द्विजस्पर्शात्तदेव हि ॥५१॥ शूद्रस्तु क्षत्रियस्पर्श क्षत्रोक्तार्धेन शुध्यति । अन्यत्राप्येवमालोच्य प्रायश्चित्तं वदेद्बुधः ॥५२॥