________________
कर्मकाण्डक्रमावली। गोसंघमध्यगः कुर्यात् तत्खुरोत्खातरेणुभिः । पावनं नरमन्त्रेण संस्पृशेदर्मणाथवा ॥३१॥ सद्योजातादिभिर्मन्त्रैरम्भोभिरभिषेचनम् । मान्त्रं स्नानं भवेदेवं वरुणाग्योदयोरपि ॥३२॥ स्नानं स्वमूलमन्त्रेण प्राणायामपुरःसरम् । कुर्वीत मानसं स्नानं सर्वत्र विहितं चरेत् ॥३३॥ संप्रक्षाल्य विशुद्धेन हस्तौ पादौ च वारिणा । संवीक्ष्य त्रिः पिबेदम्बु ब्रह्मतीर्थेन शम्बरैः ॥३४॥ रत्नहेमस्थलिङ्गेषु चले चित्रे प्रदक्षिणे । गुरुष्वपि न निर्माल्यं व्याख्यासु प्रतिमासु च॥३॥ पूजायामन्नधूपाद्यैर्गन्धदीपप्रभासु च । नदीप्रवाहे निर्माल्यं न दुष्यति कदाचन ॥३६॥ सद्यःप्रतिष्ठिते लिङ्गे चले वा यदि वाचले । चतुर्थीकर्मपर्यन्तं निर्माल्यं च न दुष्यति ॥३७॥ पत्रं पुष्पं फलं तोयमन्नपानाद्यमौषधम् । अनिवेद्य न भुञ्जीत यदाहाराय कल्पितम् ॥३८॥ अनिवेदितभुञ्जानः प्रायश्चित्ती भवेन्नरः । शिवाष्टशतजाप्येन पूजया च विशुध्यति ॥३६॥ दैवतानां प्रतिष्ठासु तडाकारामपर्वसु ।। तत्र पञ्चशती जत्वा पञ्चमस्य विशुध्यति ॥४०॥ पुंसवने चतुर्थ्यां तु भुक्त्वा वामशतं जपेत् । द्वादशैकादशाहेषु दक्षिणस्य शतत्रयम् ॥४१॥