________________
my
सोमशम्भुरचिता । चक्रवत्युपचारेण सुगन्धामलकादिभिः । स्नात्वावतार्य तत्तीर्थं संहारिण्याथ संहरेत् ॥२०॥ कपोतकुकुटातायिकाककङ्कखरश्वभिः । ग्रामसूकरगृध्रोष्ट्रैस्तदुद्भताङ्गवैकृतैः ॥२१॥ श्मशानपतितप्रेतसूतिकामाल्यभोजनः । तथान्यलिङ्गिभिः स्पर्शे वारुणं सानमाचरेत् ॥२२॥ शुक्रविण्मूत्रसंपर्के नाभेरूज़ करौ विना । वपने वमने तोयमवगाहेत शुद्धये ॥२३॥ अथातो विधिसिद्धेन संहितामन्त्रितेन च निवृत्त्यादिविशुद्धेन भस्मना सानमाचरेत् ॥२४॥ शिरस्तः पादपर्यन्तं हुंफडन्तशराणुना । तेन कृत्वा मलमानं विधिस्नानं समाचरेत् ॥२५॥ ईशतत्पुरुषाघोरगुह्यकाजातशम्बरैः ।। क्रमेणोद्भूलयेन्मूर्धवक्त्रहृद्गुह्यविग्रहान् ॥२६॥ सन्ध्यात्रये निशीथे च चर्यापूर्वावसानयोः । सुप्त्वा भुक्त्वा पयः पीत्वा कृत्वा चावश्यकादिकम् ।२७। स्त्रियं नपुंसकं शूद्रं बिडालबकमूषकम् । स्पृष्टा तथाविधांश्चान्यानाग्नेयं रूपानमाचरेत् ॥२८॥ देवाग्मिगुरुभक्तानां समीपेऽन्त्यजदर्शने । अशुद्धभूतले मार्गे कुर्यान्नोद्भूलनं व्रती ॥२६।। सूर्यांशुवर्षसंपर्के प्राङ्मुखेनोव॑बाहुना ।
माहेन्द्रं स्नानमीशेन कार्य सप्तपदावधि ॥३०॥ मन्त्ररित्यर्थः ।