________________
कर्मकाण्डक्रमावली। एकया नाभिपादान्तं प्रक्षाल्य पुनरन्यया अस्त्रेणालब्धयालभ्य दीप्तया सर्वविग्रहम् ॥६॥ निरुध्याक्षाणि पाणिभ्यां प्राणं संयम्य वारिणि । निमज्यासीत हृद्यस्त्रं स्मरन् कालानलप्रभम् ॥१०॥ मलस्नानं विधायेत्थं समुत्थाय जलान्तरात् । अथ सन्ध्यामुपास्याथ विधिनानं समाचरेत् ॥११॥ सरस्वत्यादितीर्थानामेकमङ्कशमुद्रया । हृदाकृष्य तथास्थाप्य पुनः संहारमुद्रया ॥१२॥ शेष मृद्भागमादाय प्रविश्यानाभि वारिणि । वामपाणितले कुर्याद्भागत्रयमुदङ्मुखः ॥१३॥ अङ्गैदक्षिणतश्चैव पूर्वमस्त्रेण सप्तधा । शिवेन दशधा सौम्यं जपेद्भागवयं क्रमात् ॥१४॥ सर्वदिक्षु क्षिपेत्पूर्व हुंफडन्तशिवाणुना । कुर्याच्छिवेन सौम्येन शिवतीर्थं भुजभ्रमात् ॥१५॥ सर्वाङ्गमङ्गजप्तेन मूर्धादिचरणावधि । दक्षिणेन समालभ्य पठनङ्गचतुष्टयम् ॥१६॥ पिधाय खानि सर्वाणि संमुखीकरणेन च । निमज्ज्यान्तर्जले तिष्ठेच्छिवतीर्थे शिवं स्मरेत् ॥१७॥ चन्द्रार्ककरयुग्मेन कृतया कुम्भमुद्रया । वौषडन्तषडङ्गेन के कुर्यादभिषेचनम् स्वरक्षार्थमविच्छिन्नविघ्नविध्वंसनाय च।
'अस्त्राभिमन्त्रितं तोयं दिग्विदिक्षु परिक्षिपेत् ॥१६॥ 1 'क्रमात' ख०।