________________
सोमशम्भुरचिता । . १८३ विद्याविद्येश्वरै युक्तः शंभुरत्र भविष्यति । सहस्रं प्रतिभागं तु ततः पाशुपताणुना ॥१७७०॥ कृत्वा शान्त्यम्बुना प्रोक्ष्य स्मृत्वा दभैजपेत्ततः। दत्त्वार्घ च विलोमेन तत्त्वतत्त्वाधिपैस्ततः ॥१७७१॥ मूर्तिमूर्तीश्वरांल्लिङ्गपिण्डिकासंस्थितान् गुरुः । विसृज्य स्वकपाशेन वृषस्कन्दस्थितानपि ॥१७७२।। रज्जु बद्धा ततो नेष्वा..........सूत्रंगृणा ? । तज्जलेन क्षिपेन्मन्त्री पुष्टयर्थं ..................॥१७७३॥ ................. विधिवत्लापयेद्गुरुः । अमरैर्मुनिभिः सिद्धेस्तत्त्वविद्भिः प्रतिष्ठितम् ॥१७७४॥ जीर्णं वाप्यथवा भग्नं विधिनापि विचालयेत । एष एव रिधिः कार्यों जीर्णधामसमुद्धृतौ ॥१७७५।। खड्ने मन्त्रगणं न्यस्य कारयेन्मन्दिरादिकम् । संकोचे मरण प्रोक्तं विस्तारे तु धनक्षयः ॥१७७६॥ तद्रव्यं श्रेष्ठद्रव्यं वा तत्कायं तत्प्रमाणकम् । इति जीर्णोद्धारविधिः। अथ मठादिप्रतिष्ठा -
प्रतिष्टा वा मठादीनां क्रमशो वाभिधीयते मएडपादि विधायाथ शिवकुम्भं च तद्गतम् ॥१७७७।। विलिप्तगोमयेनं सबाह्याभ्यन्तरं पदम् पुष्पस्रग्वस्त्रशोभाढ्यं कृत्वो तोरणशोभितम् ॥१७७८॥ सबन्धुर्यजमानस्य देशिकादिपुरःसरः वस्त्रमुग्मावृतं स्कन्दे शिवकुम्भं द्विजन्मनः ॥१७७६।।