________________
१८४
कर्मकाण्डक्रमावली वेदवाद्यरवैर्दिव्यैः पठन् कृत्वा प्रदक्षिणम् । किंचिद्विलम्ब्य वा स्याग्रे देशिकस्तापसान्वितः ।।१७८०॥ प्रतिष्ठा च यथाशास्त्र पुष्करिण्या निगद्यते । तत्रादौ पूजयेद्वास्तुं वेदावे रुद्रभाजिते ॥१७-१॥ कोणेषु त्रिपदाः पूज्या ईशाग्निपितृवायवाः । एकैकं पदमारूढाः पर्जन्याद्या यथाक्रमम् ॥१७८२॥ आपाद्याकारकोष्ठस्था मरीच्याद्या दशापराः । ब्रह्मा मध्ये प्रदेशे तु पञ्चविंशतिकोष्टके ॥१७८३॥ यजेद्वास्तुप्रतिष्ठायां वारुण्या मण्डपे शुभे । परिगृहीतभूमध्ये प्रारम्भे तु यथाविधि ॥१७८४॥ ततो मूर्त्यङ्गसंयुक्तं निजनाम्ना ध्रुवादिना । अष्टपत्रे सिताम्भोजे. कोलाग्नि मध्यतो यजेत् ॥१७८५॥ हाटकेशवलेशातिवलानथ महोदरम् । महाब्धिकलशाम्भोधिं विरूपाक्षं च पूजयेत ॥१७८६॥ पूर्वपत्रक्रमादीशे भ्रकुटीश्वरमष्टमम् । अनन्तादोंस्ततो गर्ने कार्कोटान्तोनिजाणुभिः ॥१७८७॥ यज्ञमण्डलबाझे तु प्रजपेचरकीमुखम् । अस्त्रं लोकाधिपांश्चाथ रौप्यं नागाष्टक तथा ॥१७८८|| तत्रानन्तं महापमं तक्षकं कुलिकायम् । शंखं च वासुकिं पन कार्कोटं चाष्टमं स्मृतम् ॥१७८६॥ पूजा शर्वादितः कृत्वा न्यसेत्तस्यां महौंषधीः। बलात्युशीरसाक्षी महायचामताप्रिया ॥91050॥
-