________________
सोमशम्भुरचिता । गर्भावरणमित्युक्तमधुनावरणान्तरम् ॥१६८४॥ द्वादशारे च चक्रेऽस्मिन्केशवाद्यान्यथाक्रमम् । प्रणवाद्यैर्यथाकालमुक्तरूपं स्वनामभिः ॥१६८।। शङखं चक्र च पमं च हलं च मुसलं ततः। शाङ्गं च विन्यसेदेवं तृतीयावरणे भवेत् ॥१६८६॥ पुष्पधूपमुनैवेद्यैवस्वालङ्करणादिभिः । ततः समाहितो मन्त्री साङ्गं देवं च पूजयेत् ॥१६८७॥ . पञ्चमूात्पके न्यासे मूलमन्त्रं भवेद्यथा । नमोऽन्ते वासुदेवाय डों अ इत्यादिकास्तथा ॥१६८८|| ओं में इंई तथा उऊं ठों अाओं युग्मपूर्वतः । संकर्षणप्रद्युम्नानिरुद्धनारायणाः क्रमात् ॥१६८६॥ नमोऽन्ताश्च चतुर्थीकान्मूर्तीशान्मर्तयः पुनः । पञ्च क्षित्यादयोऽङ्गानां विन्यासोऽत्रापि पूजनम् ।।१६६०॥ अष्टमादिपक्षेऽपि प्रोक्ता एव तदीश्वराः । सहस्र मूलमन्त्रस्य तदर्धमथवा गुरुः १६६१।। पूर्णावसानक हुत्वा जप्त्वा श्रोत्रेण मन्त्रवित् । पूर्ववच्च बलिं दत्वा यागदोपनिवृत्तये ॥१६६२।। हुत्वा च व्याहृतिं तद्वत्स स्कुर्यात्पिण्डिको ततः। . लक्ष्म्यै नमोऽवसाने डों घंधं में ढं फमादिना ॥१६६३।। मन्त्रेणानेन संचिन्त्य लक्ष्मीभूतां च पूर्ववत् । एतैश्च पञ्चसंख्याकैरेतन्मन्त्रव्यवस्थितैः ॥१६६४॥