________________
कर्मकाण्डक्रमावली हूंफडन्तैः समासेन संप्रदायेन वा क्वचित् । संस्कृता तामिमां प्राग्वत् प्रासादेनशयेत्ततः ? ॥१६६५॥ प्रकृति व्यापिनी न्यस्य लक्ष्मीमन्त्रेण पिण्डिकाम । पूर्ववन्न्यस्तमन्त्रां च ततश्च द्वोदशाक्षरम् ॥१६६६॥ पुरुषान्तं समुच्चार्य पीतवासं चतुर्भुजम् । शङ्खचक्रगदाशार्ङ्गपाणिं च वनमालिनम् ॥१६६७।। विष्णुं संस्थापयेत्तत्र चक्र पद्मासनं ततः। नमोऽन्तं व्यापकं तत्र मूर्तिमूर्त्यङ्गकांस्तथा ॥१६६८॥ तन्मात्रं स्वात्मतत्वं च विद्यातत्त्वं प्रथानकम् । पुरुषान्तं भवेदीशं विभाव्यैवमतः परम् ॥१६६६॥ परापरं समावाह्य देवं साधारणान्वितम् । संपूज्य विविवद्भक्त्या शेपं पूर्ववदाचरेत् ॥१७००॥ स्वाम्यन्तं साधनान्तं च कर्तनाम्ना च संयुतम् । द्वाराश्रितप्रतिष्ठायामिदानी रिधिरुच्यते ॥१७०१॥ द्वाराङ्गानि कषायायैः संस्कृत्य शयने न्यसेत् । मूलमध्योग्रभागेषु त्रयमात्मादिसेश्वरम् ? ॥१७०२।। विन्यस्य संनिरोध्याथ हुत्वा जप्त्वानुरूपतः । . द्वारादधो यजेद्वास्तुं तत्रावान्तरमन्त्रतः ॥१७०३।। रत्नादिपञ्चकं न्यस्य शान्तिहोमं विधाय च । यवसिद्धार्थकाकान्ता ऋद्धिवृद्धिसहातिलोः ॥१७०४॥ गोमृद्दरदनागेन्द्रमोहनीलक्ष्मणामृता । रोचनारध्वधो दूर्वामाशां दध्रश्च पोटलीम् ? ॥१७०५॥