________________
१७४
कर्मकाण्डक्रमावली शिरसि केशवं वक्त्रे नारायणं च माधवम् ।।१६७३॥ कुक्षौ त्रिविक्रम कट्यां वामनं जङ्घयोः पुनः । श्रोधरं च हपीकेशं पद्मनाभं च पादयोः ॥१६७४॥ दामोदरं च सतान्मूर्तिभूतान्विनिक्षिपेत । द्वादशाक्षरमन्त्रैको काक्षरादिकसंज्ञया ॥१६७५।। द्वितीयं हृदयायं तु प्रोच्यते सांप्रतं यथा । हृदयादिनमोऽन्तैश्च हूं हूमित्यादिकैस्तथा ॥१६७६।। मन्त्रो हृदयसंज्ञः स्याद्विष्णवे च नमः पुनः। ' शिरोऽभिधानको मन्त्रः प्रसिद्धश्च शिवागमे ।।१६७७॥ प्रणवान्तनमोऽन्तं च ब्रह्मणेति ध्रुवेति च । शिखावरक्रमादस्त्रं उचक्रति फडन्तगम् ॥१६७८॥ ............ क्रमं च गायत्री सावित्रीत्यभिधाय च । प्रणवादिनमोन्ताश्च क्षुद्रपायेति मध्यगाः ॥१६७६।। पिङ्गास्त्रमिति विज्ञेयो मन्त्रः सप्ताक्षरः शुभः । चतुर्यन्तचतुर्थ्यन्तान्मत्रानेतान् हृदादिकान् ॥१६८०॥ गायत्रीमथ सावित्री नेत्रयोर्वा मदक्षयोः । विन्यस्य तदितश्चक्रं द्वादशारं सुभास्वरम् ॥१६८१॥ तस्य मध्ये पुनर्देयं पद्ममध्यं दलं ततः । । हृदन्तं कर्णिकायां च शिरः पूर्वदले स्थितः ॥१६८२॥ शिखां च दक्षिणे पार्श्वे कवचं पश्चिमे न्यसेत । अस्त्रमुत्तरतो न्यस्य गायत्रीमग्निपत्रके ॥१६-३॥ सावित्रीमीशपत्रे च पैङ्गलास्त्रं विनिक्षिपेत् ।