________________
सोमशम्भुरचिता।
१७३ वासुदेवाय इत्यन्ते मूलमन्त्रः प्रकीर्तितः ॥१६६२॥ अथान्तरेण रूपेण यो वै मन्त्रः समीरितः। स एवानेन मन्त्रेण विष्णुः साक्षाधवस्थितः॥१६६३॥ मण्डपादिषु संस्कारो दिमीशावाहनादिके । कृत्वा हृदा हृदस्त्रेण गायच्या कवचेन च ॥१६६४॥ देवस्य स्वपनं लक्ष्म पुनः स्नानं यथाक्रमम् । विधाय परिधानं च दत्त्वा पूर्ववदासनम् ॥१६६।। मृतिरूपं च शय्यायां निवेश्य तदनन्तरम् । द्वादशाक्षरमन्त्रस्य कृत्वा न्यासमनन्तरम् ॥१६६।। ज्वालामालाकुलश्वेत-मेचकादित्यसप्रभम् ।। पीतशुक्लारुणश्वेत-विद्युत्पीतसितारुणम् ॥१६६७|| डोंकारादियकारान्तान्वर्णान् द्वादश विन्यसेत् । स्वयम्भूपञ्चरात्रे च सर्वमेतदुदीरितम् ॥१६६८|| ततः खड्गं शिखायां च मस्तके शाङ्गमेव च । चतुर्थ्यन्तनमोऽन्तेन स्वनाम्ना ध्रुवयोगिना ॥१६६६॥ मन्त्रेणैवं विधायाथ बाहोश्च मुसुलं हलम् । प्राणवायेन जं यं नं थं चक्रमध्यवर्तिनम् ॥१६७०॥ नमोऽन्तेनाणुना चक्रं नाभौ जठरपृष्ठयोः। ध्रुवपूर्वेण चं सं खं शंखाय च नमोऽणुमो ॥१६७१।। अनेन शिश्नमेढे च गुरुः शङ्खे निवेशयेत् । प्रणवपूर्व खं चं हं थं गदायै नमोऽणना ॥१६७२।। पद्मं च पनमन्त्रण गुल्फपादेषु निक्षिपेत् ।