________________
१७२
कर्मकाण्डक्रमावलो कवचाय हुँ, गौं नेत्रेभ्यो बौपट, गः अस्त्राय फटा में सी ज्ञानशक्तये नमः, डों सु क्रियाशक्तये नमः। लोकपालमन्त्रीस्तु पूर्वोक्ताः । ऐं सहैं सुभगायै नमः।
स्हिं ललितायै नमः । • सह कामिन्यै नमः । ॐ स्हों काममालिन्यै नमः । इत्येता गौरीसमानसख्यः ॥ अथ सूर्यप्रतिष्ठा
अथादित्यप्रतिष्ठायां पूर्ववन्मण्डलोदिकम् । स्थानादिकं च संपाद्य पूर्वोक्तविधिना ततः ॥१६५५।। विद्यान्तासनशय्यायां साङ्गं विन्यस्य भास्करम् । त्रितत्त्वं विन्यसेत्तत्र चेश्वरं खादि पञ्चकम् ॥१६५६।। शक्त्या च सर्वतोमुख्या संस्थाप्य विधिना ततः। स्वाणुना विधिवत्सूर्य शक्त्यन्तं स्थापयेद्गुरुः ॥१६५७।। स्वाहान्तमथवादित्यं पदान्रं नाम धारयेत् । सूर्यमन्त्रास्तु पूर्वोक्ता द्रष्टव्या स्थापनेन च ॥१६५८।। अथ विष्णुस्थापनम् -
अथ संस्थापने विष्णोः प्रागुक्तं मण्डपादिकम् । कुर्यास्नानादिकं तत्र भद्रपोठं तु हास्तिकम् ॥१६५६।। डों ओ ई ऊ तथा ऐं च औं च अश्च ध्रुवादिकाः। सचतुर्थीकरण्यन्तः पद्मं च हृदये शिरः ॥१६६०॥ शिखायै कवचं नेत्रमस्त्रमे तैस्तु मध्यमैः ।। मन्त्रा भवन्ति पनायाः क्रमात्सप्तैव ते यथा ॥२६६१॥ ॐ नमस्तु भवेदादौ मध्ये भगवते नमः।