________________
सोमशम्भुरचिता। गुरुर्वस्वादिसंयुक्तं गृहीषाद्यागमण्डपम् । अन्ये देवादयः स्थाप्या मन्त्रैः स्वागमसंभवैः ॥१६३०॥ आदित्यवर्णभेदाद्वा स्वतन्त्रव्याप्तिभाविताः ।
रितो ऋषयस्तथा ॥१६३१॥ क्षेत्रपाः किन्नराद्याश्च पृथिवीतत्वमाश्रिताः । स्थानं सरस्वतीलक्ष्मीवेदीनामम्भसि कचित् ॥१६३२॥ भुवनाधिपतीनां च स्थानं यत्र व्यवस्थितिः । अण्डबुद्धिप्रधानान्तं तत्त्वमेकं त्रिकं हरेः ॥१६३३॥ नरीशगणमातृणां यक्षभाष्यादिजन्मिनाम् । अण्डपीबुद्धिविद्यान्तं त्रितत्त्वं परिकीर्तितम् ॥१६३४।। मायांसादेवशक्त्यन्तं त्रितत्त्वं ब्रह्मणः पदम् । तन्मात्रादिप्रधानान्तं तत्त्वमेकं त्रिकं हरेः ॥१६३०॥ पदमीश्वरपयेन्तं व्यक्तार्चासु च कीर्तितम् । कूर्माद्यं कीर्तितं यच्च यच्च रत्वादि कीर्तितम् ॥१६३६॥ प्रक्षिपेत्पीठगर्भायां तच्च ब्रह्मशिला विना । षभिर्विराजिते गर्भे त्यक्त्वा भागं च पृष्ठतः ।।१६३७॥ स्थापने पञ्चाशेन यदि वा वसुभाजिते । स्थापनं सप्तमे भागे प्रतिमोसु सुखायहम् ॥१६३८॥ धोरणाभिर्विशुद्धिः स्यात्स्थापने लेपचित्रयोः। स्नानादि मानसं तत्र शिलारतादिवेशनम् १६३६॥ नेत्रोद्धाटनमत्रष्टं 'सामानादिप्रकल्पनम् । १'ष्टमांसनादि ख.।
-