SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १७० कर्मकाण्डकमावली ॥१६४२॥ पूजा निरम्बुभिः पुष्पैर्यथा चित्रेण दुष्यते || १६४० ॥ विधिस्तु वासलिङ्गेषु संप्रत्येव निगद्यते । पञ्चभिर्वा त्रिभिर्वापि पृथक पीठे विभाजिते || १६४१ ॥ भागद्वयेन चार्चाशो भवेद् भागत्रयेण वा । सपोठेष्वपि तद्वत्स्याल्लिङ्गेषु किंत्वभेदतः इष्टमन्त्रेण संस्कारो विधेयः स्फटिकादिषु । किंचिद्रह्मशिला तत्र प्रसृतैश्च निवेदयेत् || १६४३॥ योजनं पिण्डिकायाश्च मनसा परिकल्पयेत् । स्वयंभूवाणलिङ्गानां नियमः पीठसंस्कृतौ ॥१६४४ ॥ मूर्तिप्रभृतिविन्यासे न द्रष्टो नियमः क्वचित् । ॥१६४५॥ स्वपनं संहितामन्त्रयसिंहोमं च कारयेत नदीसमुद्ररोहाणां रूपनं पूर्ववन्तम् । ऐहिकं मृणमयं लिङ्गं पैष्टिकादि च तत्क्षणम् ॥१६४६|| कृत्वा संपूजयेच्छुद्धं वीक्षणादिविशुद्धितः । समाधाय ततो मन्त्रानात्मसंस्थान्विधाय च ॥१६४७॥ तज्जले प्रोक्षयेल्लिङ्गं वत्सरात्कामदं भवेत् । उक्तं च स्थापनं शम्भोः श्रीमता सोमशंभुना ॥ १६४८ || इति शम्भुस्थापनम् । अथ गौरीप्रतिष्ठा गौर्यादिस्थापनं यच तदिदानीं निगद्यते अथ गौरीप्रतिष्ठायां विधानमभिधीयते संस्थाप्य पूर्ववदेवीं शय्यायामधिरोप्य च । शिलामालभ्य भालान्ते नमश्च हृदयान्तगम् ॥ १६५०॥ ॥१६४६॥
SR No.010394
Book TitleKarmkanda Kramavali
Original Sutra AuthorN/A
AuthorJagaddhar Jadu Shastri
PublisherJagaddhar Jadu Shastri
Publication Year1947
Total Pages208
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy