________________
१६८
कर्मकाण्डक्रमावली सद्वैतभावनायुक्तं स्थण्डिले च विधावपि ॥१६१६॥ एवं संस्थाप्य चण्डेशं चएडदोषनिवृत्तये ।। यजमानं सबन्धु च सभार्य सपरिग्रहम् ॥१६२०॥ पूर्वस्थापितकुम्भेन स्थापयेत्स्थापकद्वयम् । । स्थापकं यजमामोऽपि संपूज्य च महेशवत ॥१६२१॥ वित्तशाठयं विना दद्याद्भू हिरण्यादिदक्षिणाम् । यथा सन्तोषमायाति तथा पूज्यो गुरुस्ततः ॥१६२२॥ असन्तुष्टो गुरुर्यसान्न कर्तुस्तत्फलं भवेत् । मर्तिपान्विधिवत्पश्चाज्जापको ब्रह्मणा तथा ॥१६२३।। दैवज्ञं शिल्पिनं भवत्या संपज्य दक्षर रतः । कर्मिदीनान्धकक्लिष्टान्सामेतांश्च भोजयेत् ॥१६२४॥ स्थापक ........................ प्रतिमालिङ्गवेदीनां यावन्तः परमाणवः ॥१६२५॥ तावद्युगसहस्राणि कर्तुर्भोगभुजः फलम् । यदत्र संमुखीभावैर्बोधितो भगवन्मया . . ॥१६२६॥ क्षमस्व नाथ तत्सर्व करुणाम्बुनिधे मम । इति विज्ञाप्य युक्ताय यजमानाय सद्गुरुः॥१६२७॥ प्रतिष्ठापुण्यसंस्कारं , स्फुरत्तारकसप्रभम् । कुशपुष्पाक्षतोपेतं स्वकरेण समर्पयेत् ॥१६२८॥ ततः पाशुपतं जप्त्वा प्रणम्य परमेश्वरम् । ततोऽपि बलिभिभूतान्संनिधानाय रोधयेत् ।।१६२६॥ स्थातव्यं भवता तावद्यावत्सन्निहितो हरः ।